शुक्र नीति (महर्षि शुक्राचार्य - हिन्दी टीका सहित)
Shukra Niti of Shukracharya Hindi
महर्षि शुक्राचार्य द्वारा
स्रोत: Shukra Niti with Vidyodini Sanskrit-Hindi Commentary (उद्गम)
पृष्ठ 8, कुल 526 में से
संदर्भ में पढ़ें( ६ )
पक्षस्थितिं वा न जानन्ति । अत एव मतभेदः प्रसृतो भवति । एतादृश्या- मवस्थायां व्यास इव भगवत्प्रसादेन निर्मलान्तःकरणः पतञ्जलिरिव निपुणमतिः— विदग्धः, कार्यदक्षो यदावतरति कश्चित्तदा स इतस्ततः प्रसृतानां मतीनां पूर्वोत्तरपक्षभावेन समन्वयं प्रकाशयति । तदेव कार्यं वात्स्यायनापरपर्यायेण कौटिल्येनार्थशास्त्रं निर्माय कृतम् । यस्य प्रतिभावत्त्वं, शक्तिमत्त्वं, मेधावित्वं, वेधस्त्वं च कामन्दकेन ग्रन्धारम्भे प्रत्यपादि ।
जातवेदा इवार्चिष्मान् वेदान् वेदविदां वरः ।
योऽधीतवान् सुचतुरश्चतुरोऽप्येकवेदवत् ॥यस्याभिचारवज्रेण वज्रज्वलनतेजसः ।
पपातामूलतः श्रीमान् सुपर्वा नन्दपर्वतः ॥एकाकी मन्त्रशक्त्या यः शक्त्या शक्तिधरोपमः ।
आजहार नृचन्द्राय चन्द्रगुप्ताय मेदिनीम् ॥नीतिशास्त्रामृतं श्रीमानर्थशास्त्रमहोदधेः ।
य उद्धत्रे नमस्तस्मै विष्णुगुप्ताय वेधसे ॥ इति
ततः पूर्वं नीतिविद्याया एका शाखा शुक्रमुखात्स्यन्दन्ती सहस्राध्याय्यात्मिकाऽऽ- सीत् । इति महाभारतवचनप्रामाण्यादवगम्यते ।
अध्यायानां सहस्रेण काव्यः संक्षेपमब्रवीत् ।
तच्छास्त्रममितप्रज्ञो योगाचार्यो महायशाः ॥ इति
तदन्तर्गतानि कतिपयगद्यानि उद्धृतानि विश्वरूपाचार्यकृत-बालक्रीडायामुप- लभ्यन्ते । ( या० अ० श्लो० ३२८ ) तथा नीतिवाक्यामृतटीकायामपि अनेकानि शुक्रनीतिवाक्यानि दृश्यन्ते । अस्याः टीकायाः प्रतिलिपिः—१५४९-वैक्रमसंवत्सरे कयाचिद् विदुष्या जैनसम्प्रदायान्तर्गताय चन्द्रप्रभाचैत्यालयाय समर्पितेति तत्प्र- काशकेन स्वकृते आमुखे सप्रमाणमुपन्यस्तम् । एतट्टीकाकर्तुः गौरवं कदा लोके प्रसिद्धमिति तु तिमिर एव तिरोहितम् तथापि कतिपयशतब्दीपर्यन्तं विस्तृतः शुक्रनीतिग्रन्थ उपलभ्यमान आसीदिति निश्चप्रचम् । तमपि महान्तं ग्रन्थं