शुक्र नीति (महर्षि शुक्राचार्य - हिन्दी टीका सहित)
Shukra Niti of Shukracharya Hindi
महर्षि शुक्राचार्य द्वारा
स्रोत: Shukra Niti with Vidyodini Sanskrit-Hindi Commentary (उद्गम)
पृष्ठ 9, कुल 526 में से
संदर्भ में पढ़ें( ७ )
धारयितुमसमर्थान् विद्यारसिकान् दृष्ट्वा कश्चन कुशलस्तस्मादेव ग्रन्थात् सङ्ग्रह- रूपेण तान्येव पद्यानि सङ्कलय्य शुक्रनीतिनाम्ना ग्रन्थमुपस्थापितवान् । सेयं शुक्रनीतिः अद्य प्रकाश्यमाना विदुषां पुरतः उपस्थिता वर्तते ।
अत्र केचित्—महाभारतोक्तमौशनसशास्त्रं शुक्रनीतेरन्यदिति मन्यन्ते । तन्नाति- मनोरमम् । चाणक्यः ग्रन्थारम्भे “ओं नमः शुक्रबृहस्पतिभ्याम्” इति मङ्गलं कृत्वा तत्र शुक्रनाम निर्दिश्य स्वग्रन्थे पूर्वाचार्यमतपर्यालोचनावसरे औशनसेति नाम्ना तदेव मतं निर्वक्ति ।
अथ प्रस्तुत-शुक्रनीतिविषये केचनाक्षेपद्वयमुपस्थापयन्ति । तयोर्वास्तविक- त्वमस्ति न वेति प्रसङ्गात् विचार्यते । तत्रायं प्रथमः आक्षेपः, कौटिल्येन दण्डनीति- रेकैक विद्येत्यौशनसं मतमस्तीति प्रतिपादितम् । अत्र तु—
आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती ।
विद्याश्चतस्र एवैता अभ्यसेन्नृपतिः सदा ॥
इत्युपलभ्यते । अतोऽयं शुक्रनीतिसारग्रन्थः कौटिल्यसम्मतौशनसशास्त्रापेक्षया भिन्नः शुक्रादन्येन केनचित् प्रणीतः इति ।
अत्रोच्यते—“तस्यां हि सर्वविद्यारम्भाः प्रतिष्ठिताः” इति चाणक्यनिरूपितौ- शनसमतदर्शनेनावगम्यते, यत् भगवान् शुक्राचार्यः स्वयं चतसृणामपि विद्याना- मुपयोगं जानन्नपि शिष्यविशेषाणां पुरतः सर्वविद्यारम्भो दण्डनीत्यधीन एवेति व्याजहारेति । तच्छ्रुत्वा ते शिष्या दण्डनीतेः प्राधान्यं तदभिप्रेतमिति स्वीचक्रुः । नह्यस्यायमाशयः, यत् इतरविद्यानामनुपयोगित्वमिति । स्वयं शुक्नो वा तच्छिष्या वा तपस्विनो भूलोकादारभ्य ब्रह्मलोकपर्यन्तं गतिशीलाः आन्वीक्षिकीत्रयीवार्ताना- मुद्देश्यसिद्धयनन्तरं निष्फलत्वं जानन्तो लोकसङ्ग्रहं चिकीर्षवः एकां दण्डनीतिमे- वात्मसात्कर्तुं प्रायतन्त । कालक्रमेण तत्परम्परायां ब्रह्मवित्त्वह्रासो दण्डनीतेरेव प्राधान्यं चाभूदिति दृष्ट्वा चाणक्येनोपयुक्तं मतमौशनससङ्केतेन प्रतिपादितम् । स्वयमुशनसस्तु मतं पृथक् प्रयोजनवत्त्वाच्चतसृणामपि विद्यानां लोकोपकारकत्व-