शुक्र नीति (महर्षि शुक्राचार्य - हिन्दी टीका सहित)
Shukra Niti of Shukracharya Hindi
महर्षि शुक्राचार्य द्वारा
स्रोत: Shukra Niti with Vidyodini Sanskrit-Hindi Commentary (उद्गम)
पृष्ठ 10, कुल 526 में से
संदर्भ में पढ़ें( ८ )
मस्तीत्यभिप्रायकमत्र ग्रन्थे निर्दिष्टम्। इत्युभयोस्सति समन्वये शुक्रनीतिसार-ग्रन्थो मूलभूतशुक्रनीतिग्रन्थात्सवर्ंथा भिन्न इत्यत्र प्रबलं प्रमाणं न पश्यामः ।
अपरश्चाक्षेपः—शुक्रनीतिसारे चतुर्थाध्याये त्रिंशत्तमश्लोकमारभ्य "बन्दूक" "तोप" पदवाच्यानामायुधानामुखेखः समुपलभ्यते । तद्द्वारा "गन् पाउडर" आदि वस्तुजातैर्निमितमभिचूर्णं निक्षिप्य शत्रुभञ्जनः कत्र्तव्यो भवति । "गन् पाउडर" पदार्थंश्च भारतीयैः पूर्वमज्ञातः “पोतुंगीज” जातीयैः पाश्चात्त्यविद्वद्भिरेव संशोध्य आविष्कृतः । इतीतिहासतो ज्ञायते । तस्मात् प्रस्तुतग्रन्थोऽयं 'पोतुंगीज' आक्रमणा-नन्तरं केनचिद् विदुषा निर्माय 'बन्दूक' 'तोप' आद्यायुधान्युल्लिख्य प्रकाशितः । स्वस्य ग्रन्थस्य प्रामाण्यख्यापनार्थं च शुक्रनीतिनाम्ना प्रसिद्धतां नीतः । इति ।
अत्रोच्यते—'गन् पाउडर' पदार्थे अपेक्षितं द्रव्यं 'सोरा' इति प्रख्यातं वस्तु । तच्च भारतीयैर्न ज्ञातमासीदिति पूर्वपक्षिणामाशयः। तदिदमबोधविजृम्भितम् । 'सोरा' नामकं वस्तु 'सुवर्चिका' नाम्ना आयुर्वेदग्रन्थेषु प्रसिद्धम् । तद्यथा शालग्रामनिघण्टौ—
'सूर्यंक्षारोऽर्कंक्षारश्च ताक्ष्यंस्त्रीक्षणरसस्तया । सुवर्चिका सार्वसहो क्षौरिणश्च शिलाजतु ॥ इति ।
तैत्तिरीयश्रुतिदर्शंनतोऽपि ज्ञायते । तथाहि—
एषा वै सूर्मी कर्णकावत्येतया ह स्म वै देवा असुराणां शततर्हाᳲ स्तूᳲ हन्ति यदेतया समिधमादधाति वज्रमेवैतच्छ्रतघ्नीं यजमानो भ्रातृव्याय प्रहरति । इति ।
१. संस्कृते— सूर्यंक्षारः
हिन्दीभाषायाम्—सोरा, सूर्याखार, बाजी,
| भाषा | शब्द |
|---|---|
| मराठी | सोरा |
| गुजराती | सुरोखार |
| तैलंगी | चिट्लुभस्ममु |
| इंग्रेजी | नाइटर, साल्टपिटर |
| लैटिन | पोटेश्यं नैंट्राम्, |
| फारसी | शोरा |
| अरबी | अबकेर, । इति । |