भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 105, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 105

विवृणोति—प्रसादादिति । यस्या देव्याः । अजामेकां लोहितशुक्लकृष्णामित्यादिश्रुतिप्रति- पाद्याया मायाया इत्यर्थः । तथा तादृशानिर्वचनीयात्प्रसादादनुग्रहात् । भारती वाग्देवी । नृत्यन्ती नर्तनकारिणी । स्याद्भवति । नर्तनस्य स्थानापेक्षत्वादाह—मुखरङ्ग- गेति । कृतिनां पण्डितानां मुखमेव रङ्गो नृत्यस्थानं तत्र गता विद्यमाना । कथं नृत्यन्तीति दृष्टान्तमाह—भारतीवेति । भारतस्य नर्तकस्येयं भारती । नर्तकी स्त्री । यथा भाग्यवतां पुरुषाणां गृहाङ्गणस्था रङ्गस्थानाग्रिमभागस्था नर्तकी नायि (टि) का काचन नृत्यं करोति तद्वदित्यर्थः । दृष्टान्तदाष्टर्दान्तिकयोः सादृश्यावगमाय तुल्यविशेष- णान्याह—चित्रपदेति । सरस्वतीपक्षे चित्राणि नानाविधानि पदानि सुप्तिङन्तरूपाणि विद्यन्ते यस्याम् । नटीपक्षे नानाविधचरणायङ्गविन्यासः । नानाविधगायनपदानि वा । इदमसाधारणं करणं नर्तने । स्वलंकृतिः । सरस्वतीपक्षे सुष्ठु दूषणरहिताः सगुणा अलंकारा वक्रोक्त्यनुप्रासयमकश्लेषचित्रपुनरुक्ताभासाः शब्दालंकाराः, उपमानन्वयोपमेयोपमोत्प्रेक्षा- संदेहरूपकापह्नुतिश्लेषसमासोक्तिनिदर्शनेत्यादिकाव्यप्रसिद्धा अर्थालंकाराश्च विद्यन्ते यस्याम् । नटीपक्षे चारुस्वर्णानि भूषणानि दृष्टृणां प्रवृत्तिकारण (स) हायमिदम् । लालि- त्यलोलावती । सरस्वतीपक्षे ललितस्य भावो लालित्यम् । 'श्लेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधय ॥' इति काव्यप्रकाशोक्तगुणसंपन्नतया । दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थं निहतार्थममुचितार्थं निरर्थकमवाचकं त्रिधा- ऽश्लीलं संदिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेत्क्लिष्टम् । अविमृष्टविधेयांशं विरुद्धमतिकृत् समासगतमेवेति तदुक्तदोषनिराससंपन्नतया च सौश्रवस्त्वम् । तस्य लीला विलासः । स विद्योतते यस्याः सा । नटोपक्षे 'विलासो गमनादि स्याच्चेष्टा श्लिष्टाङ्गता कृता । कान्त्या सुकुमाराङ्गापाङ्गत्वं ललितं विदु'रिति संगीतरत्नाकरोक्तं ललितम् । एतच्च नर्तन- रूपप्रतिपादकं विशेषणम् । मायाया अपि जगदुत्पादकत्वादिकं फलमुपलक्षणम् । तेन फलान्त- राण्यपि भवन्तोति ध्येयम् । केचित्सिद्धिविघ्नाधीशत्वेन भारतीशब्दस्य वागर्थाम्युपगमेन चात्र गणेशसरस्वत्योः प्रणाम इत्याहुः । तन्न । भूगोलादीनामीश्वरमायानिर्मितत्वात्तत्स्व- रूपनिरूपणारम्भे तयोरेव नमस्कारयोः समुचितत्वात् ॥१॥ केदारदत्तः—ग्रन्थ के आरम्भ, मध्य और अन्त में मङ्गलाचरण किया जाता है। अतः आचार्य सिद्धि शब्द प्रयोग के साथ ग्रन्थ में भी लकार जिस मंगलमूर्ति गणेश जी का स्मरण करने मात्र से, तथा जिस भगवती सरस्वती देवी के प्रसाद से विज्ञ पुरुषों के अभीष्ट साध्य कार्य सिद्ध होते हैं या सफल होते हैं। नृत्यांगना की तरह विचित्र पदविन्यास करती हुई और मनोरम अलङ्कार से सुसज्जित एवं मधुर लगने वाली विद्वानों के मुखरूपी रंगमंच पर गद्यपद्यमयी वह भारती नृत्य करती हुई सुशोभित होती है। ऐसे गणेश तथा सरस्वती दोनों को प्रणाम कर बालों को अनायास ज्ञान कराने के लिए दोष रहित इस ग्रहगोलाध्याय का मैं भास्कराचार्य प्रतिपादन कर रहा हूँ। अर्थात् ग्रहगोलाध्याय ग्रन्थ (ग्रहगोलगणितस्कन्ध) प्रारम्भ कर रहा हूँ।