सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 110, कुल 723 में से
संदर्भ में पढ़ेंचितम् । प्रश्नास्तथा सोत्तरा इति । पूर्वोद्देशस्तुल्यद्य (ध्रु) वाद्गोलप्रश्नोद्देशसिद्धयर्थ- मिति ध्येयम् ॥५॥ केदारदत्तः—यहां युक्तियों से गोल स्वरूप बताया जा रहा है—प्रत्यक्षादि प्रमाण से भू नक्षत्र और ग्रहों की स्थिति स्वरूप निर्णय निरूपण के लिए प्राज्ञगणितज्ञों से बाँस आदि शलाकाओं से निर्मित यह दृष्टान्तीभूत गोल रचना के गोलज्ञान से क्षेत्र व्यवहार, बीजगणित त्रैकोणमितिक प्रभृति गणितों से यह ग्रहगोल ज्ञेय होता है या जाना जा सकता है ॥५॥ इदानीं गणितप्रशंसामाह— ज्योतिःशास्त्रफलं पुराणगणकैरादेश इत्युच्यते नूनं लग्नबलाश्रितः पुनरयं तत्स्पष्टखेटाश्रयम् । ते गोलाश्रयिणोऽन्तरेण गणितं गोलोऽपि न ज्ञायते तस्माद्यो गणितं न वेत्ति स कथं गोलादिकं ज्ञास्यति ॥६॥ वा० भा०—स्पष्टार्थम् ॥६॥ मरीचिः—नन्वेवं ग्रहगणितनिरूपणात्पूर्वमेव द्विधागणितनिरूपणपूर्वकं गोलनिरूपणा- पत्तिः । गोलस्थपदार्थज्ञानादेव ग्रहानयनाद्युत्पत्तेर्ग्रहगणितस्य संकलनादिषड्विधसापेक्षत्वा- त्पाटीगणितं बिना तदनुपपत्तेश्चेत्यतः शार्दूलविक्रीडितेनाऽऽह—ज्योतिरिति । पुराणगणकैः प्राचीनज्योतिर्विद्वद्वरवराहमिहिरादिभिर्ज्योतिःशास्त्रस्य संहिताजातक- गणितस्कन्धत्रयात्मकस्य फलं प्रयोजनमादेशो वर्तमानभूतभविष्यशुभाशुभकथनमिति तच्छा- स्त्रेण तन्निरूपणनिश्चयाद्धेतोरित्यर्थः । उच्यते । अङ्गीक्रियते । पुनर्वाक्यालंकारे । असा- वादेशः । नूनं निश्चयेन । लग्नबलाश्रितः । व्यवहारैर्जातकादेशो लग्नकुण्डलिकाग्रहसंस्थान- बलाधीन इत्यर्थः । तत्तत्कुण्डलिकाग्रहसंस्थानबलं स्पष्टग्रहाधीनम् । ग्रहणशृङ्गोन्नत्यादि- गणितस्कन्धादेशस्य साक्षादेव स्पष्टग्रहाधीनत्वमिति । तस्माज्ज्योतिःशास्त्रप्रतिपाद्यादेशाः साक्षात्परम्परया वा स्पष्टग्रहज्ञानाधीना इति सिद्धान्ते स्पष्टग्रहागोलाश्रयिणो गोलस्थितत्वेन प्रत्यक्षाः । गोलस्थित्यवगमनोपपत्तिसिद्धं तज्ज्ञानं गोलनिरूपणाधीनमित्यर्थः । गणितमन्तरेण ग्रहगणितव्यतिरेकेण गोलो न ज्ञायते । अपिशब्दात्स्पष्टग्रहास्तदुपजीव्यग्रहणादिकं च न ज्ञायते । गोलावगमार्थं यथाश्रुतग्रहगणितपदार्थज्ञानमतिप्रयोजकं तत्तु तद्गणितनिरूपण- साध्यमित्यर्थः । तथा च गणितज्ञानाधीनगोलज्ञानात्तदनन्तरं निरूपणं युक्तमिति भावः । ननु गोलनिरूपण एव तत्पदार्थस्य सामान्यतो ज्ञानसिद्धेर्न गोलज्ञाने ग्रहगणितज्ञानापेक्षेत्यत उपसंहारव्याजेन तदुत्तरमाह—तस्मादिति । तस्मादुक्तहेतोर्यो गोलाध्यायपिपठिषुर्गणितं ग्रहगणितं न वेत्ति न जानाति स पिपठिषुर्गोलादिकं गोलयन्त्रं प्रश्नोत्तरं कथं केन प्रकारेण ज्ञास्यति न ज्ञास्यतीत्यर्थः । तथा च बिना ग्रहगणितज्ञानं गोलज्ञानं सम्यङ् न जायते ।