सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 113, कुल 723 में से
संदर्भ में पढ़ेंगोलप्रशंसाध्यायः ११ अतः कोई भी छात्र व्याकरण शास्त्र के ज्ञान के अनन्तर ही शास्त्रान्तर ज्ञान का उत्तम पात्र होता है। व्याकरण ज्ञान के अनन्तर ही अन्य शास्त्रों की ज्ञान कक्षा में प्रवेश समुचित होता है ॥८॥ अथाऽऽत्मनो गोलग्रन्थस्य प्रवृत्त्यर्थमन्योक्तिप्रकारेणाऽऽह— गोलं श्रोतुं यदि तव मतिर्भास्करीयं शृणु त्वं नो संक्षिप्तो न च बहुवृथाविस्तरः शास्त्रतत्त्वम् । लीलागम्यः सुललितपदः प्रश्नरम्यः स यस्माद् विद्वन् विद्वत्सदसि पठतां पण्डितोक्तिं व्यनक्ति ॥९॥ वा० भा०—स्पष्टम् ॥९॥ इति गोलप्रशंसाध्यायः । मरीचि :—ननु तथाऽपि लल्लश्रीपत्यादिकृतगोलग्रन्थानां सत्त्वात्तत्कृतो गोलग्रन्थो व्यर्थ इत्यतो मन्दाक्रान्तावृत्तेनाऽऽह—गोलमिति । हे विद्वंश्चतुर तव गोलं गोलाध्यायं श्रोतुं पठितुं बुद्धिर्यदि भवति । यदीत्यनेन प्रागुक्त- युक्त्या गोलाध्यायारम्भो व्यर्थो नेति त्वया निश्चितमन्यथा तत्पठनेच्छानुपपत्तेरिति सूचि- तम् । तर्हि भास्करीयं भास्कराचार्यनिर्मितमेनं गोलाध्यायं शृणु पठ । प्राचीनग्रन्थानां सत्त्वादत्राऽऽग्रहः कथमित्यत आह—स इति । यस्मात्कारणात्स भास्कराचार्यनिर्मितोऽयं गोलग्रन्थो विद्वत्सदसि पण्डितसभायां पठतां स्वपाठकपुरुषाणां पण्डितोक्तिं व्यनक्ति प्रकाशयति । पण्डितसभायामेतत्पठतस्तत्स्थाः पण्डितोऽयमस्तीति वदन्तीत्यन्यगोलं पठतस्तादृशोक्त्यनाश्रयत्वान्मदुक्तोऽयं गोलग्रन्थो न व्यर्थ इति भावः । पण्डितोक्तिं कुतो व्यनक्तीति भास्करीयगोलस्य विशेषणमाह—शास्त्र- तत्त्वमिति । सकलगोलग्रन्थसारभूतमित्यर्थः । अत्र हेतुभूतविशेषणद्वयमाह—नो इति । संक्षिप्तोऽल्पविचारो नो । बहुवृथाविस्तरो न च । व्यर्थोक्त्या विस्तृतोऽपि न कृत इत्यर्थः । नन्वेवं कठिनो भविष्यतीत्यत आह—लीलागम्य इति । किंचिदुपदेशेनैवैतद्बोधो भवतीत्यर्थः । अत्र हेतुगर्भं विशेषणमाह—सुललितपदप्रश्नरम्य इति । सुललितानि पदानि विद्यन्ते येषु ते च ते प्रश्नाः । गोलप्रश्नास्तै रम्यः । तथा च ललितपदैः पद्यानां दुर्गमार्थत्वाभावात्प्र- श्नतात्पर्यबोधेन तदुत्तरजिज्ञासयोत्तरपद्यान्यपि तादृशपदानि दुर्गमार्थानीति लीलागम्योऽयं गोलाध्याय इति भावः । प्रश्न इत्यनेन गोलप्रश्नाध्यायोऽत्र पृथक्समनन्तरमेवोक्त इति सूचितम् ॥९॥ ननु प्रतिज्ञातगोलाध्यायमुपेक्ष्येदमन्यदेव निरूपितमतः फक्किकयाऽऽह—इति श्रीसिद्धा- न्तशिरोमणौ गोलप्रशंसेति । कस्यचित्पाताधिकारातग्रन्थः शिरोमणिः । अयं ग्रन्थस्तु