सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 119, कुल 723 में से
संदर्भ में पढ़ेंगोलस्वरूपप्रश्नाध्यायः १७ द्विरुद्धमित्यत आह—किमिति । बुधास्तदभिज्ञा उदयास्तमययोरुदययोर्नित्योदयसूर्याधीनोदय- योरित्यर्थः । अस्तयोर्नित्यास्तसूर्याधीनास्तयोश्चेत्यर्थः । दृक्कर्म द्वेधा । द्विधाभूतमायनमाक्षं चेत्यर्थः । ग्रहे विदध्युः संस्कुर्य्युः । तत्तथा । उदयास्तयोरेवेति कि नियतमित्यर्थः । तथा च विना दृक्कर्मसंस्कारं दृक्साम्यसिद्धिर्न घटते । अन्यथा दृक्कर्मसंज्ञाव्याघातः । अतो ग्रहस्पष्ट- त्वसिद्धयर्थं दृक्कमापि संस्कार्यं मन्दशीघ्रफलवदित्युदयास्तलग्नसाधनार्थमेव तद्दानमुपयुक्त- मिति भावः । तस्मादुक्तरीत्या त्वदुक्तं पूर्वार्धप्रतिपादितं ग्रहगणितमयुक्तमित्युपसंहरति— सर्वमिति । चेद्यदि । अमलं निर्दूषणं गोलममलमत्यर्थं विजानासि र्तार्ह मे मम सर्वं पूर्वार्धोक्त- गणितजातं विमलं निर्दूषणं वद । पूर्वार्धेन तत्पदार्थानां सामान्यज्ञानात्तत्पदार्थस्वरूपप्रति- पादनानुक्त्या सर्वमसंगत गणितजातमिति भावः ॥४॥ केदारदत्तः—कल्पगत अहर्गण से अनुपात द्वारा साधित मध्यम ग्रह की स्पष्टता में अनेक गणितों की क्या आवश्यकता है ? देशान्तर क्या है ? उदयान्तर क्या है ? भुजान्तर क्या है ? चर नामक गणित पदार्थ क्या है ? मृदु शीघ्र उच्च, पात तथा मन्दशीघ्रोच्च फल क्या हैं ? क्यों इन्हें धन वा ऋण किया जाता है ? ग्रहोदयास्त कर्म में द्विविध दृक्कर्म (आयन और आक्ष) क्या हैं ? दोष रहित स्वच्छ गोल ज्ञान यदि है तो उक्त सभी प्रश्नों का निर्दोष उत्तर कहिए ॥३॥४॥ अथ त्रिप्रश्ने दिनमानभेदप्रश्नं श्लोकद्वयेनाऽऽह— महदहः किमहो रजनी तनुर्दिनमणौ गणकोत्तरगोलगे । ननु तनुर्दिवसो महती निशा वद विचक्षण दक्षिणदिग्गते ॥५॥ भवति किं द्युनिशं द्युनिवासिनां द्युमणिवर्षमितं च सुरद्विषाम् । पितृषु किं शशिमासमितं तथा युगसहस्रगुणं द्रुहिणस्य किम् ॥६॥ वा० भा०—स्पष्टम् ॥५॥६॥ मरीचिः—अथ चरघटीसहिता रहिता इत्यादिना स्पष्टाधिकारोक्तदिनरात्र्योरुत्तर- गोले महदल्पत्वं दक्षिणगोलेऽल्पमहत्त्वं सिद्धं द्रुतविलम्बितेन खण्डयति—महदिति । हे गणक गणितज्ञ । उत्तरगोलाधिष्ठिते सायनसूर्ये, अहो इत्याश्चर्ये । अहो दिवसो महान्युक्तो भवति । रात्रिस्तनुरल्पा कुतो भवति । भूमेरविकृत [त्वे] नोदयास्तस्थलयोरेक- वृत्तस्थत्वाच्च । गोलसंधौ दिनरात्र्योस्तुल्यत्वेनाग्रे उत्तरगोले दिनरात्र्योवृद्धिह्रासौ कुतः संजातौ । कारणाभावात् । विपरीतमेव कि न जातमित्याश्चर्यपदम् । एवं दक्षिणदिग्गते दक्षिणगोलस्थे सायनसूर्ये हे विचक्षण पदार्थस्वरूपविचारक । नन्विति । पूर्वपक्षद्योतकं वितर्के वा । दिवसस्तनुरल्पः कि निशा महती किं, अत्र कारणं वद । तथा च दिनरात्र्योरु- त्तरदक्षिणगोलक्रमेण सदृशत्वमयुक्तम् । सदैकरूपस्य युक्तत्वात् । अत्र उक्तं दिनरात्र्योर्वि- सदृशत्वमसंगत युक्त्यभावादिति भावः ॥५॥ २