सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 120, कुल 723 में से
संदर्भ में पढ़ें१८ गोलाध्याये अथ प्रसङ्गाद्देवपितृप्रजापतीनां मध्याधिकारोक्ताहोरात्राणि द्रुतविलम्बितेन खण्ड- यति—भवतीति । द्युनिवासिनां देवानाम् । सुरद्विषां दैत्यानां च । चः समुच्चये । तेन देवदैत्ययोरि- त्यर्थः । द्युमणिवर्षमितं सौरवर्षप्रमाणं द्युनिशमहोरात्रं किं भवति कस्माद्धेतोर्भवति । यथाऽस्मद्देशे षष्टिघटीमितमहोरात्रं तथा तयोः सौरवर्षमितमहोरात्रं द्युरात्रं च देवा- सुराणां तदेवेति मध्याधिकारे कया युक्त्योक्तं कथं च षष्टिघटीमितेनोक्तम् । एवं पितृषु पितृविषये । तेषामित्यर्थः । चान्द्रमासमितं तथाऽहोरात्रम् । एतच्च पैत्रं द्युरात्रमित्यने- नोक्तं किं कुतो हेतोः । द्रुहिणस्य ब्रह्मणो युगसहस्रयुगं कल्पद्वयप्रमाणमहोरात्रं स्याद्युगानां सहस्रं दिनं वैधसं सोऽपि कल्पो द्युरात्रं तु कल्पद्वयमित्यनेन कथमुक्तं कारणाभावात् ।।६।। केदारदत्तः—हे गणक उत्तरगोलगत सूर्य में दिनमान अधिक रात्रिमान कम क्यों होता है ? तथैव दक्षिण गोलगत सायन सूर्य में रात्रिमान अधिक और दिनमान कम क्यों होता है ? एक सौर वर्ष काल प्रमाण के तुल्य समय में देवताओं और असुरों का एक ही दिन क्यों होता है । तथा एक चान्द्र मासतुल्य काल में पितृलोक (चन्द्रपृष्ठ) में एक ही दिन क्यों होता है । तथा कल्पद्वयप्रमाण काल में ब्रह्मा का एक ही अहोरात्र क्यों होता है । (एककल्प तुल्य काल में ब्रह्मा का १ दिन और १ कल्पकाल की ब्रह्मा की १ रात्रि होती है ।) ।।५-६।। अथ राश्युदयभेदप्रश्नमाह— भवलयस्य किलार्कलवाः समाः किमसमैः समयैः खलु राशयः । समुपयान्त्युदयं किमु गोलवि- न्न विषयेष्वखिलेष्वपि ते समाः ॥७॥ वा० भा०—स्पष्टम् ।।७।। मरीचिः—अथैकस्य राशेर्महतो ज्यका येत्याद्युक्तनिरक्षोदयांश्च देशोदयांश्च द्रुत- विलम्बितेन खण्डयति—भवलयस्येति । राशयो मेषादयोऽसमैः समयैरतुल्यकालेन खलु निश्चयेनोदयं समुपयान्ति । किं कुतो मेषादिराशीनां सर्वेषामुदयकालाः समाः कथं नोक्ताः, विसदृशाः कथमानीताः । उदय- काला इत्यनु (त्यु) पलक्षणम् । अस्तकालाः कथं न समा इत्यपि ध्येयम् । ननु राशि- मानानामतुल्यत्वेनैव तदुदयास्तकालावप्यतुल्याविति युक्तमेवेत्यतो राशिविशेषणमाह—समा इति । तुल्यप्रमाणास्त्रिंशद्भागात्मकाः सर्वे राशयः प्रत्येकम् । नहि मेषाद्वृषो वृषान्मि- थुनो भागैरधिको येनोदयास्तकालाः परस्परं न्यूनाधिकाः संभवन्ति । मेषाख्यत्रिंशद्भागानां यावुदयास्तकालौ तावेव वृषाख्यत्रिंशद्भागानां नेति कथमसंगतं स्पष्टाधिकार उक्तमिति