सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 121, कुल 723 में से
संदर्भ में पढ़ेंगोलस्वरूपप्रश्नाध्यायः १९ भावः । समत्वे मानाभाव इत्यत्र आह—भवलयस्येति । राशिसंबन्धिवृत्तस्य द्वादशांशरूपा राशयः । किल निश्चयेनेति [रि] क्तसमा एव भाव्या इत्यर्थः । तथा च नाक्षत्रषष्टिघटी- भिर्भचक्रपरिवर्तनाद्द्वादशांशः पञ्चघटीमितो राश्युदयास्तकालो युक्तियुक्तो न त्वतुल्य इति भावः । ननु भचक्रप्रदेशविशेषस्य समत्वेऽपि तथा शक्तिरस्तीत्यत आह—किम्ब्विति । हे गोलवित् । गोलतत्त्वज्ञातेऽपि यथाकथंचिदङ्गीकृता अतुल्योदयास्तकाला अखिलेषु सर्वेषु विषयेषु देशेषु समा अविकृताः किमु न भवन्ति । प्रतिदेशं विसदृशा उदयाः कथं संजाताः, भूमेस्तुल्यत्वादिति भावः ॥७॥ केदारदत्तः—क्रान्तिवृत्त के समान द्वादश विभागों में प्रत्येक विभाग का मेषादि से मीन पर्यन्त नाम हैं । ये द्वादश राशियां पृथ्वी के सभी देशों में क्षेत्रात्मक मान से तुल्य होती हुई भी कालात्मक विभिन्न विषम समयों में क्यों उदित होती हैं ? ॥७॥ इदानीं द्युज्याकुज्यादिसंस्थानप्रश्नं वृत्तार्धेनाऽऽह— द्युज्याकुज्यापमसमशराग्राक्षलम्बादिकानां विद्वन् गोले वियति हि यथा दर्शय क्षेत्रसंस्थाम् ॥७½॥ वा० भा०—स्पष्टार्थम् । केदारदत्तः—हे विद्वन् ! हे गोलज्ञ ! आकाश गोल में द्युज्या, कुज्या, क्रान्ति, समशंकु, अग्रा, लम्बांश आदिकों को सही क्षेत्र संस्था को दिखाओ ॥७½॥ इदानीं चन्द्रार्कग्रहणयोर्दिक्कालभेदादुपपत्तिप्रश्नान् सार्धश्लोकेनाऽऽह— तिथ्यन्ते चेद्ग्रह उडुपतेः किं न भानोस्तदानी- मिन्दोः प्राच्यां भवति तरणेः प्रग्रहः किं प्रतीच्याम् ॥८॥ लम्बनं बत किं का च नतिर्मतिमतां वर । तत्संस्कृतिस्तिथौ बाणे किं ते सिद्धे कुतः कुतः ॥९॥ वा० भा०—अत्र किल प्रष्टुरयमभिप्रायः । चन्द्रग्रहणे भूमा ग्रहणकर्त्री । पौर्णमास्यन्ते भूमेन्दोस्तुल्यत्वाद्युतिर्भवितुमर्हति । एवं सूर्यग्रहे चन्द्रश्छादकः । दर्शान्ते तयोस्तुल्यत्वादद्योगेन भवितव्यम् । अत उक्तम्—तिथ्यन्ते चेद्ग्रह उडुपतेः किं न भानोस्तदानीमिति । बत अहो गणक लम्बनं नाम किं नतिश्च का । तत्संस्कृतिस्तिथौ बाणे च किम् । लम्बनेन तिथिः संस्क्रियते नत्या किं बाणश्च । तथाऽन्यः प्रश्नः । ते सिद्धे कुतः कुत इति । ते लम्बनावनती कुतो हेतोः कुतः पृथिव्याः साधिते । भूव्यासाधैन साधिते इत्यर्थः । तथेदोः प्राच्यां दिशि स्पर्शः किं रवेः प्रतीच्यामित्यादि सर्वं वद ॥८–९॥ मरीचिः—अथ त्रिप्रश्नग्रहणाधिकारौ खण्डितप्रायावपि मन्दाक्रान्तया खण्डयन्नाह—