सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 127, कुल 723 में से
संदर्भ में पढ़ेंभुवनकोशः २५ पञ्च कर्मेन्द्रियाणि। अथोभयात्मकं मनः। न हीन्द्रियैः स्वातन्त्र्येण गुणग्रहणं कर्तुं शक्यते। अतस्तदधिष्ठातारो देवाः— दिग्वातार्कप्रचेतोशिववह्नीन्द्रोपेन्द्रमित्रक[चन्द्र]ः। इति। श्रोत्रेन्द्रियस्य दिशः। त्वचो वायुः। चक्षुषोरर्कः। जिह्वाया वरुणः। नासिक- योरश्विनौ। तथा वाचोऽग्निः। बाह्वोरिन्द्रः। पादयोर्विष्णुः। गुदस्य मित्रः। मेढ्रस्य प्रजापतिः। मनसश्चन्द्रः। इतीन्द्रियाधिदेवताः। तत्र यानीन्द्रियाणि तानि तैजसादहंकारात्। ये देवास्ते वैकारिकादभवन्। यथोक्तं विष्णुपुराणे— तैजसादिन्द्रियाण्याहुर्देवा वैकारिकाद्दश। एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः॥ इति। ततः संहतेश्च ब्रह्माण्डम्। एवमुत्पन्नानां तत्त्वानां समुदायात्पूर्वं प्राकृतिक- प्रलयमिलितसकलजलधिजले बुद्बुदाकारं ब्रह्माण्डमभवत्। तज्जठरे पद्माकारा मही। तत्र कर्णिकाकारो मेरुस्तत्पृष्ठनिष्ठश्चतुर्वदनः कमलोद्भवस्तस्मात्तदनु- जमनुजादित्यदेत्यं विश्वमभवत्। यस्मादाद्यतत्त्वात्परब्रह्मणः क्षुब्धप्रकृतिपुरुषाभ्यां महदादिपरम्परासमुदायोत्पादितब्रह्माण्डजठरगतजगतीजलजजनिताद्विरञ्चेरिदं विश्वमभवत्। शश्वदनवरतम्। तस्य ब्रह्मणोऽवसानेऽन्यो ब्रह्माऽन्यज्जगदित्यर्थः। अतस्तदाद्यं तत्त्वं जयति ॥१॥ मरीचिः—अथ पृथ्वीसंस्थानप्रश्नोत्तरभूतभुवनकोशाध्यायो व्याख्यायते। तत्र सृष्ट्वा भचक्रमित्याद्युक्त्यावगतस्वाभिमतचक्रस्थितेः संस्थानार्थं भूमिप्रश्नोत्तरं भूमिस्थित्यादि- स्वरूपभूतं विवक्षुः प्रथममुपस्थितसृष्टिसंभवः कथमित्याशङ्कापाकरणाय मूलभूतसृष्टिप्रक्रियां युक्तियुक्तप्रश्नोत्तरसद्यःस्फुर्णकामनाचरितमङ्गलनिबन्धनच्छलेन मन्दाक्रान्त्याऽऽह-यस्मा- दिति। तत् 'यतो वाचो निवर्तन्ते। अप्राप्य मनसा सहै'ति श्रुतेरनिर्वचनीयं बुद्धिस्थं वस्तु जयति सर्वोत्कर्षेणास्तीत्यनेन नमस्कार आशिष्यतै। नन्वनिर्वचनीयत्वादेव मिथ्यात्वेन सर्वोत्कृष्टत्वं कथमत आह—तत्त्वमिति। तत्त्वमसीति श्रुत्या वस्तुभूतम्। तेन वेदान्त- मतप्रपञ्चवन्मिथ्यात्वं नेति सर्वोत्कृष्टत्वं स्वतः सिद्धमिति भावः। अत्र हेतुभूतं विशेषणं विशेषतस्तदवगमार्थमाह—ब्रह्मेति। बृहत्त्वादपरिच्छिन्नत्वाद्व्यापकमित्यर्थः। ॐ तद्ब्रह्मेति श्रुतेः। प्रपञ्चस्य तथात्वाभावादिति भावः। तत्सद्भावे प्रमाणमाह—आद्यमिति जगत्प्राग्भावकालावस्थायित्वेन तन्निमित्तकारणभूतमिति कार्यलिङ्गकानुमानेन तत्सि- द्धिर्यतो वा इमानि भूतानि जायन्ते। तत्सृष्ट्वा तदे