सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 128, कुल 723 में से
संदर्भ में पढ़ें२६ गोलाध्याये स्वयं यथा भ्रामकसंनिधाने । वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य पुरुषविमोक्ष- निमित्तं तथा प्रवृत्तिः प्रधानस्येत्युक्त्या जगदुपादानकारणभूतायाः प्रकृतेरचेतनाया जीवासां- निध्यादेव जगत्कर्तृत्वसमर्थनात्परमपदस्याप्युपादानकारणकर्त्रोरभेदोऽर्थ इति शश्वज्जयति परं ब्रह्मतत्त्वमाद्यमित्यनेन प्रकृतिसिद्ध्या नेश्वरसिद्धिरित्यतः पातञ्जलमताभ्युपगम- पूर्वक सृष्टिप्रक्रियाकथनच्छलेन तत्सिद्धिमाह — यस्मादिति । यस्माद्धेतोरित्यर्थः । क्षुब्ध- प्रकृतिपुरुषाभ्याम् । अविलम्बेन कार्योत्पत्तिकत्वं क्षुब्धत्वम् । क्षुब्धौ यौ प्रकृतिपुरुषौ । प्रकृतिर्गुणसाम्यमव्यक्तं प्रधानं सांख्यशास्त्रे जगत्कारणतया प्रसिद्धम् । तत्क्षोभस्तु गुणा- धिक्यरूपः । पुरुष ईश्वरः । स वा एष पुरुष इति श्रुतेः । तत्क्षोभश्च सिसृक्षा । ताभ्यां प्रकृतीश्वराभ