भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 131, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 131

भुवनकोशः २९. नुजमनुजादित्यदैत्यम् । दनुजा दानवाः । आदित्या देवाः । दैत्या असुराः । तैः समेतं समन्तात् तिष्ठति । शेषं स्पष्टार्थम् ॥२॥३॥ मरीचिः-अथ किमाकारेत्यन्तप्रश्नयोरुत्तरं स्रग्धरावृत्तेनाऽऽह-भूमेरिति । अयमाश्रयीभूतः । भूमेः पृथिव्याः पिण्डः स्वांशानां दार्ढ्येनैकीभावः । इह ब्रह्माण्डे वियत्याकाशे ब्रह्माण्डावच्छिन्नाकाशमध्यभागे तिष्ठति स्वमध्यभागैक्यरूपेणास्तीत्यर्थः । नन्वेकीभावो दार्ढ्यत्वेनानुपपन्नः । प्रत्यक्षविरोधादत आह-मृदनिलसलिलव्योमतेजोमय इति । मृत्पृथिवी । तस्या संपूर्णवयवा एकीभावापन्नाः । वायूदकाकाशतेजसां प्रत्येकं पृथिवीसंपूर्णभागचतुर्थशमिता भागास्तन्मयस्तदेकीभावरूपोऽयं पिण्डः । तथा च केवल- भूभागेस्तद्रूपत्वासंभवेऽपि जलादिभूतभागसहचारेण भूभागैकीभावस्य पिण्डत्वं नानुपपन्नम् । अत एवान्यभागानां सत्त्वेऽपि भूभागानां बहुत्वात्पृथिवीपिण्ड इति व्यवहार इति भावः । नन्वाकाशेऽचेतनवस्तुनः स्थिरत्वाददर्शनाद्ब्रह्माण्डावच्छिन्नाकाशे तत्स्थितिरधोऽधो गमनेऽप्यस्तु । परं ब्रह्माण्डमध्यगर्भकेन्द्ररूपाकाशे तत्स्थितिरित्युक्तं तु न युज्यत इत्यत आह-नियतमिति । सदा ब्रह्माण्डकेन्द्रस्थितेन कालक्रमेणन्द्राऽधोऽचेतनविशेषस्याऽऽकाशे स्थिरत्वमरतीत्यग्रे समर्थितत्वादिति भावः । नन्वयं पिण्डो ब्रह्माण्डमध्यगर्भ एवास्तीति कथमवगम्यत इत्यतः पिण्डस्य बहुस्वरूपसंभवात्किमाकारोऽयमित्याशङ्कानिवारकभवचक्र- संस्थानपूर्वकतत्पिण्डस्वरूपकथनच्छलेन तदुत्तरमाह-शशाङ्केति । अथ सृष्ट्यां मनश्चक्रे ब्रह्माऽहंकारमूर्तिमत् । मनसश्चन्द्रमा जज्ञे सूर्योऽक्ष्णस्तेजसां निधिः । अग्निरापो भास्करेन्दू ततस्त्वङ्गारकादयः । तेजोभूखाम्बुवातेभ्यः क्रमशः पञ्च जज्ञिरे । पुनद्वादशधाऽऽत्मानं विभ- जद्राशिमण्डलम् । नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी । ततश्चराचरं विश्वं निर्ममे देवपूर्वकमित्यादिसूर्यसिद्धान्तोक्तसृष्टिसिद्धम् । चन्द्रबुधशुक्रसूर्यभौमगुरुशनिनक्षत्रबिम्बानां भ्रमणयोग्यमार्गसंबन्ध्याकाशगोलाः कक्षावृत्तपदवाच्याः । तैर्वृत आवृत्तः । समान्तरेणाभितो व्याप्तः सन्नयं पिण्डो वृत्तो वर्तुलः कन्दुकाकार इत्यर्थः । कक्षापदसमभिव्याहारादुक्तक्रमेण गोलानामूर्ध्वोर्ध्वस्थत्वम् । पूर्वोद्दिष्टस्यानन्तरोद्दिष्टवृत्तत्वं च लभ्यते । तथा च विषुवति यावत्कालमुदयानन्तरं ग्रहादेर्दर्शनं तावदेवास्तानन्तरमदर्शनमिति नियमानुरोधाद्भूगोलस्य ब्रह्माण्डमध्यभागस्थत्वम् । नक्षत्रादिगोलानां ब्रह्माण्डपरिधेरभितस्तुल्यान्तराभावकल्पने मानाभावादिति भावः । ग्रहनक्षत्राणामेकगोलाधिष्ठितत्वे शराभावे युतावेकत्र संनिवेशनं तयोरतिविस्तृतमण्डलयोर्गमनानुपपत्तेर्मण्डलभङ्गापत्तेश्चेति पृथक्पृथग्गोलाः । तत्र नक्षत्रा- काशगोलस्तु पाञ्चभौतिको नीलो मध्याकाशात्मकः अत एव नीलं नभ इति प्रतीतिरत्र नक्षत्राणि ब्रह्मणा स्वेच्छयेतस्ततः स्थापितानि । नक्षत्रगोलस्य केवलाकाशात्मकत्वे तद्द्वादश- विभागांनां राशीनां चलनासंभवेन तदधःस्थग्रहस्य प्रवहवशतः पश्चिमाभिमुखभ्रमणे द्वादशराशिभोगापत्तेः । स्वाधिष्ठितराशीनां नियोगापत्तेश्च । नच रेवत्यधिष्ठिताकाश- स्थानात्तदात्मकानां राशीनामङ्गीकारात्तच्चलनं रेवतीचलनादेवाऽऽकाशप्रदेशात्मकत्वेऽपि सिद्धमिति वाच्यम् । अननुगताकाशप्रदेशात्मकत्वेन राश्यनुगमाभावात् । अत एव पाञ्च -