सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 146, कुल 723 में से
संदर्भ में पढ़ें·४४ गोलाध्याये कर पूर्व में और पुच्छ तारा पश्चिम में होने से द्वितीय सूर्योदय ध्रुवमत्स्य तारा के मुख तारा गत सूर्य का द्वितीय उदय अर्थात् मुख तारा गत सूत्र में ही द्वितीय सूर्योदय का होना प्रत्यक्ष सिद्ध हो रहा है तो पृथ्वी का आकाश में सरासर नीचे चले जाने की कल्पना करना सुतरां व्यर्थ है । प्रत्यक्ष दृश्य वस्तु को देख लेने के अनन्तर उक्त अनर्गल कल्पना तो मात्र बुद्धि दोषाय ही कही जायेगी ॥१०॥ इदानीं भूगोलस्य समतां निराकुर्वन्नाह— यदि समा मुकुरोदरसन्निभा भगवती धरणी तरणिः क्षितेः । उपरि दूरगतोऽपि परिभ्रमन् किमु नरैरमरैरिव नेक्ष्यते ॥११॥ यदि निशाजनकः कनकाचलः किमु तदन्तरगः स न दृश्यते । उदगयं ननु मेरुरथांशुमान् कथमुदेति च दक्षिणभागके ॥१२॥ वा० भा०—पुराणे भूः समादर्शोदरसन्निभा कथ्यते । तन्मध्ये मेरुः । परितो जम्बूद्वीपं लक्षयोजनव्यासम् । तद्बहिर्लक्षप्रमाणः क्षाराम्भोधिः । ततोऽन्यद्दीपं लक्षद्वयम् । ततः समुद्रस्ततोऽन्यद्दीपम् । द्वीपाद्दीपं द्विगुणम् । समुद्रात्समुद्रो द्विगुणः एवं यत् सप्तमं पुष्करद्वीपं तन्मध्ये मानसोत्तरपर्वतो वलयाकारोऽस्ति । तन्मस्तकोपरि रविरथचक्रं लक्षयोजनान्तरे विषुवद्दिने भ्रमति । उत्तरगोले तदुत्त- रतो दक्षिणगोले दक्षिणत इति । अथयुक्तिरुच्यते । यदि समा भूस्तदा तदुपरि दूरगतो रविर्भ्रमन् किमस्मदा- दिभिर्न दृश्यते । सततं देवैरिव । यदि मेरुणाऽन्तर्हितो रविस्तर्हि मेरुः कथं न दृश्यते । यदि मेरुतटान्निःसृतस्यार्कस्योदयस्तर्हि प्राच्या उत्तरत एवार्कस्योदयेन भवितव्यम् । यतो मेरुत्तरतः । अथ कथं दक्षिणभाग उदगच्छन् दृश्यते । अतो भूमेः समतायामिदं नोपपद्यत इत्यर्थः ॥११॥१२॥ मरीचि :—ननु प्रतिदिनं प्रतिदेशं दिनरात्रिमानयोर्भेदान्यथानुपपत्त्या भूमेश्चक्रा- कारत्वम् । यो वाऽयं द्वीपः कुवलयकमलकोशाभ्यन्तरकोशो नियुतयोजनविशालः समवर्तुलो यथा पुष्करपत्रं यस्मिन्नव वर्षाणि नवयोजनसहस्रायामान्यष्टभिर्मर्यादागिरिभिः सुविभक्तानि भवन्ति । एषां मध्य इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितः सर्वतः सौवर्णः कुल- गिरिराजो मेरुर्द्वीपायाममुन्नाहः कर्णिकाभूतः कुवलयकमलस्येति । यावन्मानसोत्तर- मेर्वोरन्तरं तावती भूमिः कांचन्यन्याऽऽदर्शतलोपमेति च भागवताद्युक्तेरङ्गीकार्यम् । दिन- रात्रिमानभेदस्य तत्रैवोपादितत्वात् । गोलाकारत्वं च प्रत्यक्षविरुद्धमित्याशङ्क्य द्रुत- विलम्बितवृत्तेन निरस्यति—यदीति । धरणी पृथ्वी । मुकुरोदरसंनिभा । आदर्शोदरसंनिभा भगवती विश्वंभरा कीर्तिता कैश्चित् । कैश्चन कूर्मपृष्ठसदृशी । कैश्चित्सरोजाकृतिरिति श्रीपत्युक्तेः । ननु भूमेर्भच-