सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 145, कुल 723 में से
संदर्भ में पढ़ेंतवाज्ञानसंख्या गणयितुमशक्या । दिगम्बरत्वेन निस्त्रपत्वादगुणानां द (त) स्वाश्रितत्वात्त्व- दुक्तमस्माभिरुपेक्षणीयमिति भावः । ननु मया यदुच्यते तत्प्रत्यक्षानुभवसिद्धमतो मय्यज्ञानं कथमित्यत आह—द्वैगुण्यमिति । यस्त्वं प्रत्यक्षैकप्रमाणको ध्रुवमत्स्यपरिभ्रमम् । उत्तरदिक्- स्थाया ध्रुवताराया मत्स्य आसन्नानेकपूर्वापरतारार्सन्निवेशेन मत्स्याकारः कश्चन नक्ष- त्रगणो भासते । तस्य परिभ्रमणं दृष्ट्वा प्रत्यक्षेण निश्चित्य । अदृष्ट्वा तत्स्वीकरणं घटत इत्यपिशब्दार्थः । भार्केन्द्रादीनां द्वैगुण्यं वृथा । अकरोरित्यर्थः । प्रत्यक्षोत्तरध्रुवतारा- मत्स्यभ्रमानुभवविरुद्धं त्वत्कल्पितद्वैगुण्यं विना प्रत्यक्षं कथमङ्गीकृतम् । न हि तद्द्वयं केनापि चक्षुषा दृष्टं येन त्वदुक्तं युक्तमिति तात्पर्य्यार्थः । तथा चोत्तरध्रुवस्य पुच्छतारा- सूत्रे भरण्यस्ति । तत्रस्थः सूर्योऽस्तं याति तदा मत्स्यपुच्छतारा पश्चिमतो मुखतारा पूर्वतो रात्र्यारम्भे तदासन्नोत्तरकाले वा भवति । अथ रात्र्यवसाने तदासन्नपूर्वकाले वा पुच्छतारा परिवर्त्य पूर्वतो मुखतारा प्रत्यक्षपरिवर्तनेन पश्चिमत इत्यार्कास्तोद्ययकालयोरर्कस्य पुच्छतारासूत्रविच्छेदादर्शनादेक एव सूर्यः । न तद्द्वयम् । एवमन्येषामपि । अन्यथा भव- न्मतेऽति मत्स्यपरिभ्रमाद्भचक्रसंपूर्णभ्रमणाङ्गीकारातस्य षाडहोरात्रद्वयकालसंबाधात्प्रकृते द्वितीयरात्र्यन्ते पुच्छतारायाः पूर्वदिगवस्थानसंभवेन पूर्वरात्र्यन्ते पूर्वदिगवस्थानानुपपत्तेः । अत एवापिशब्दस्थानेऽह्वनेति पाठः क्वाचित्कः सूपपन्नः । नहि भचक्रस्थैर्यार्थं ध्रुवचतुष्टयं येनोत्तरध्रुवद्वयात्तदुपपत्तिः । दक्षिणोत्तरसूत्रस्य गोल एकत्वेन संवादादुत्तरध्रुवद्वयासन्निवे- शादतो दिगम्बरस्य प्रत्यक्षप्रमाणासिद्धचेदं वक्तुं कथं कथमुचितमिति भावः । एवं च सर्वत्र सदा दिनरात्र्योस्तुल्यत्वापत्त्या तद्द्वयासंभवेन तदेकत्वे भूमेः सर्वतः समकर्णसम- चतुर्भुजाकारत्वे सर्वत्र त्रिगुणितदिनमानस्य रात्रित्वापत्त्या प्रतिदिनं प्रतिदेशं दिनमानरात्रि- मानयोभिन्नत्वदर्शनान्यथानुपपत्त्या च भूमेः प्रागुक्तं कन्दुकाकारत्वं सूपपन्नमिति द्योतित- मनेन पद्येनेति सिद्धम् ॥१०॥ केदारदत्तः—भचक्र में ग्रह नक्षत्रादि की द्विगुणित संख्या की कल्पना युक्तियुक्त नहीं हैं— क्योंकि जब सूर्य ग्रह की स्थिति भरणी नक्षत्र में होती है तो ध्रुवमत्स्यतारा की मुख और पुच्छ की प्रत्यक्ष दर्शनीय स्थिति से दो सूर्य दो चन्द्रमा इत्यादि जैन बौद्ध मत निरस्त हो जाते हैं । सूर्य स्पष्ट जब ०।२३° से ०।२६° तक अर्थात् वर्त्तमान दृश्य सौर मण्डलीय गति के अनुसार लगभग ता० २६ अप्रैल से ता० ९ मार्च तक के निरयण आकाश में भरणी में सूर्य बिम्ब रहता है । भरणी नक्षत्र गत सूर्य की स्थिति में ध्रुवमत्स्य तारा ध्रुव के पास आकाश में लम्ब रूप पूर्व पश्चिम में दीखती है । सूर्य के अस्त समय में ध्रुव मत्स्य तारा की मुख तारा पश्चिम को और पुच्छतारा पूर्व को होतो है । मुख तारा मुख में सूर्योदय दीखता है। रात्रि समाप्ति के समय मुख तारा घूम