सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 144, कुल 723 में से
संदर्भ में पढ़ेंधोगमने तु दिनमध ऊर्ध्वस्थभचक्रार्धयोर्निकटदूरत्वापत्तेश्च । न चेष्टापत्तिः । सदा दिन- रात्र्योर्महल्लघुत्वापत्तेः । किञ्च भचक्रव्यासार्धस्य नियतयोजनमानज्ञानादधोगमने भूम्या भचक्राधःस्थत्वापत्योदयास्तासंभवेन सदा सूर्यदर्शनाद्रात्र्यभावापत्तेः न च भचक्रादीनां कक्षामानानन्त्यं स्वीकार्यमिति वाच्यम् । नियतमाननिबद्धग्रहगणितादेर्दृग्विषयस्योच्छेद- प्रसङ्गात् । अथाऽऽकाशस्थगुरुवस्तुस्थित्यदर्शनाद्भचक्रान्तर्गता भूमिर्भचक्रब्रह्माण्डगोलादि- यावत्पदार्थैः सहाधो गच्छतीति कल्पकोटिशतैरपि न किंचिद्विरुद्धमिति चेन्न । सर्वेषां चलत्वकल्पनात् स्थिरत्वकल्पनाया लघुभूतत्वात् । गुरुलध्वोस्तुल्याधोगमनस्य प्रत्यक्ष- विरोधात् । ब्रह्माण्डगोलचलनस्य कुत्राप्यश्रुतत्वाच्च । एतेनोर्ध्वक्षिप्तवस्तुनो भूमौ प्रपात- दर्शनान्यथानुपपत्त्याऽऽकाशस्थाचेतनस्थित्यननुभवेन तच्चलनकल्पनाद्भूमिरूर्ध्वं गच्छतीति परास्तम् । अचेतनस्योर्ध्वगमनादर्शनात् । ऊर्ध्वस्थभचक्रस्य निकटत्वापत्तेः । भचक्रादूर्ध्व- गमनप्रसङ्गेन सदा सूर्याद्यदर्शनादन्धकाराकलितत्वापत्तेश्च । सर्वपदार्थचलनं तूक्तयुक्त्या पूर्वमेव निरस्तम् । तस्माद्भूमेरधः प्रदेशाभावेन सर्वाधारत्वेन च पतनासंभवाद्ब्रह्माण्ड- मध्याकाशे स्थिरा स्थिरैवेति पूर्वोक्तं युक्ततरमिति भावः ॥९॥ केदारदत्तः—पृथ्वी आकाश में प्रतिक्षण नीचे गिरती जा रही है, हे बौद्ध तेरी ऐसी कल्पना कारिका बुद्धि क्यों व्यर्थ हो गई है । आचार्य भास्कराचार्य यहाँ कह रहे हैं कि हे बौद्ध तुम देख रहे हो कि आकाश में फेंका गया वाण (शर) आदि कोई वस्तु नीचे गिर रही है और तदपेक्षा आपके मत से पृथ्वी तो आकाश में बहुत नीचे गिर जावेगी । पृथ्वी के ऊपर फेंके गये गुरु पदार्थ का पृथ्वी से तुम्हारे कथनानुसार संयोग ही नहीं होना चाहिए, किन्तु संयोग प्रत्यक्ष हो रहा है ऐसा देखकर भी हे बौद्ध ! तुम्हारी बुद्धिगत कल्पना से तुम्हारी बुद्धि व्यर्थ क्यों हो रही है ॥९॥ इदानीं जैनयुक्तिभङ्गमाह— किं गण्यं तव वैगुण्यं द्वैगुण्यं यो वृथाऽकृथाः । भार्केन्दूनां विलोक्याह्ना ध्रुवमत्स्यपरिश्रमम् ॥१०॥ वा० भा०—यदा भरणीस्थो रविर्भवति तदा तस्यास्तमयकाले ध्रुवमत्स्यस्ति- र्यक्स्थो भवति । तस्य मुखतारा पश्चिमतः । पुच्छतारा पूर्वतः । तदा मुखतारासूत्रे रविरित्यर्थः । अथ निशावसाने मुखतारा परिवर्त्य पूर्वतो याति । पुच्छतारा पश्चिमतॊ याति । ततो मुखतारासूत्रगतस्यैवार्कस्योदयो दृश्यते । अतो द्वौ द्वौ सूर्यावित्यनुपपन्नम् । अत उक्तं—कि किमेकं तव वैगुण्यं गण्यम् । येन ध्रुवमत्स्य- परिश्रमं दृष्ट्वाऽपि भार्केन्दूनां द्वैगुण्यमङ्गीकृतम् ॥१०॥ मरीचिः—अथ सूर्यादिग्रहाणां द्वैगुण्यनिरासकथनच्छलेन भुवः स्वोक्तं कन्दुकाकार- त्वमनुष्टभोपपादयति—किमिति । हे दिगम्बर तव वैगुण्यमज्ञानं । क कथं गण्यम् ।