सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 149, कुल 723 में से
संदर्भ में पढ़ेंभुवनकोशः ४७
पादितम् । मेरुस्थानां तु मेरुच्छायान्तर्गतत्वाभावाद्द्वात्र्यभावः । कांचनभूम्यन्तरदले मेरोश्छायाभावात्क्वचित्सदा मेरुस्थवन्न रात्रिरित्याशङ्क्य द्रुतविलम्बितवृत्तेन निषेधति—यदिति । अत्रोत्तरार्धस्थनन्विति पूर्वपक्षद्योतकं पदं प्रथममन्वेतीति बोध्यम् । कनकाचलो मेरु- र्निशोत्पादक उक्तरीत्या । यदीति पूर्वपक्षसमाप्तिद्योतकश्चेदित्यर्थपरः । एतत्पू[र्व]पक्षोत्तर- मिदमिति ज्ञानार्थम् । उत्तरार्धस्थायेतिपदं पूर्वपक्षानन्तर्यार्थकं बोध्यम् । उत्तरमुच्यत इति शेषः । उत्तरमेवाऽऽह—किम्बिति तयोर्दृष्टिसूर्ययोरन्तरे मध्ये व्यवधानेन स्थितो मेरुः कथं न दृश्यते । यद्दर्शने यः प्रतिबन्धकस्तदवश्यदर्शननियमान्मेरुदर्शनापत्तेर्न मेरुः सूर्यदर्शनप्रति- बन्धक इति भावः । अथातिदूरत्वात्स दृश्यत इति चेत् । ध्रुवादीनामप्यनुपलम्भापत्तेः । निष्प्रभत्वाच्चेति चेत् । कनकत्नममयत्वेनार्ककिरणप्रतिफलात्तदुपलम्भप्रसङ्गात् । व्यवहित- त्वादिति चेत् । मेरुप्रमाणेन्यान्यपर्वतादीनामभावस्य पुराणसिद्धत्वात् । अन्यथा मेरुव्यवधाय- कस्यैव रात्रिजन्कत्वापत्तेः । तदनिर्वचनाच्च । अथ दिने सूर्यतेजआधिक्याददर्शनं रात्रौ त्वन्धकारप्राबल्यादिति चेत् । उदयास्तयोरुच्चत्वेनोपलम्भापत्तेर्न भूमिसंलग्नतया । तत्काले मेरुदर्शनापत्तेश्च । अथोच्येत महाप्रमाणोऽपि दूरत्वाद्भू निमग्न इति चेत् । तर्हि तस्य व्यवधायकत्वानुपपत्तेर्ग्रहभ्रमणस्योच्चैर्दृग्विषयत्वात् । अथोच्येतानेककारणमदर्शनमिति चेत् । उत्तरदिगस्माभिः कथं घनतिमिरच्छन्नेव नोपलभ्यते मेघमण्डलकेनेव । अन्धकारस्य तत एवोत्पत्तेः । ध्रुवोत्तरस्थितताराणां यावत्क्षितिजमदर्शनापत्तेश्च । ननु ताराणां सूर्या- पेक्षयाऽतिदूरस्थत्वेन तद्व्यवधानासंभवात्तत्प्रकाशेनोत्तरदिशि घनान्धकारानुत्पत्तेः । क्षितिज- स्यामेरुतटत्वेनोपलम्भाच्च मेरोर्निशोत्पादकत्त्वाङ्गीकारे न काऽपि क्षतिः पुराणादिषु क्लृप्तत्वाच्चेत्यस्वरसाद्दूषणान्तरमाह—उदगिति । अंशुमान् सूर्यः । दक्षिणभागके स्वाभिमतदक्षिणाश्रितप्रदेशे दक्षिणगोले कथमुदेति । दक्षिणगोले प्रत्यक्षोपलब्धदक्षिणभागो- दयास्तयोरनुपपत्तिरिति भावः । ननूत्तरगोले दक्षिणगोले दक्षिणभागे तत्संधौ पूर्वापर- योरिति किमनुपपन्नमन्यथा गोलानुपपत्तेरित्यत आह-उदगिति । अयं रात्र्युत्पादकत्वेन प्रसिद्धो मेरुपर्वतः । उदक् । स्वस्थानादुत्तरस्थितः । यत्कारणादस्मात्तदनुपपत्तिरित्यर्थः । तथा चोत्तरदिक्स्थमेरोर्व्यवधायकत्वेन तत्तद्व्यवधानारम्भसमाप्तितयोदयास्तयोरुत्तरत एव सदा संभवाद्दक्षिणभागे मेरोरसत्त्वात्तदुदयास्तानुपपत्तिः । नहि मेरुर्गोलवशात्तत्तद्दिग्- स्थश्चलति येन तदुपपत्तिः । अचलत्वानुपपत्तेरिति भावः । एवं चार्कस्य मानसपर्वतोपरि तदाकारेणैव भ्रमणात् । तस्य स्वस्थानाद्दक्षिणदिक्स्थत्वेन सदा दिने तत्र तत्त्वादर्शनापत्त्या चतुर्विंशत्यंशावावधिदेशे खमध्यस्थत्वानुपपत्त्या प्रत्यक्षोपलब्धच्छाया[भा]वस्याप्यनुत्पत्ति- प्रसङ्गः । कदाचित्ततः स्वत उत्तरदिगवस्थानानुपपत्तिर्दक्षिणोत्तरसूत्रस्थदेशानां प्रत्यक्ष- सिद्धदिनमानभेदानुपपत्तिरुदयास्तस्थानयोस्तन्मते नियतत्वादित्यादिदूषणगणैः पुराणमतम- नालम्भतः प्रत्यक्षोपलब्धान्यथानुपपत्त्या भूमेर्गोलाकारत्वमेव परिशेषात्सिद्धम् । तेन च भूम्यभितोऽर्कादीनां भ्रमणसंभवेन स्वस्थानाद्भूमिगोलोर्ध्वखण्डस्य दर्शनादधःखण्डस्या-