सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 152, कुल 723 में से
संदर्भ में पढ़ेंच्चये । तेन कन्दुकस्थांशे समत्वेऽप्यल्पतया न तस्य तदाकारेण प्रतिभानम् । भूमिगोल- कस्य तु किंचिदूनपञ्चाशद्योजनभागे समत्वसद्भावात्तदाकारेण प्रतिभानमिति भावः । नन्वेवं बृहत्कन्दुकाकारमृत्पिण्डगोलैऽशस्य समतयोपलम्भात्समत्वेन दर्शनेऽपि तदधिकदर्शनेन गोलाकारदर्शनप्रतीतेर्भावित्वाद्भूमिगोलेऽपि पञ्चाशद्योजनप्रदेशे समतया दर्शनप्रती- [ता]वपि तदधिकांशदर्शने गोलांशत्वेनापि प्रतीतिर्भवत्वित्यत आह—तनीयानिति । नरो मनुष्यस्तनीयानतिशयेन लघुभूत इत्यर्थः । तथा च मनुष्याणामल्पप्रमाणत्वेन तद्दृष्टिगोचर- भूम्यंशस्य समभागावगतभूमिप्रदेशत्वाभावेन संपूर्णसमभागदर्शनमेव नास्ति कथं तदधिक- दर्शनम् । येन गोलाकारप्रतीतिरतः एव तत्पृष्ठगतस्येत्यनेनोच्चस्थानां भूपृष्ठदर्शनभागाधिक- भागदर्शनाद्विहगाधिपस्य ब्रह्मणो वा गोलाकारप्रतीतिरस्तीति सूचितम् । तथा च सूर्य- सिद्धान्ते—अल्पकायतया लोकाः स्वस्थानात्सर्वतोमुखम् । पश्यन्ति वृत्तामप्येनां चक्राकारां वसुन्धरामिति । एवं च मण्डलाकारदर्शनेन गोलाकारत्वं विरुद्धं नेति भावः ।।१३।। अथ कियन्मानेतिप्रश्नोत्तरं प्रोक्तो योजनसंख्यया कुपरिधिरित्यनेन मध्यमाधिकार एवोक्तं तत्पुराणविरुद्धमपि समञ्जसमुपपत्तिसिद्धत्वादित्युपजातिकयाऽऽह-पुरान्तरमिति । तदक्षविश्लेषलवैः । कयोश्चिद्दक्षिणोत्तरसूत्रस्थयोर्नगरयोर्वक्ष्यमाणरीत्या ज्ञातध्रुवो- न्नतिरूपाक्षांशमानयोर्विश्लेषेऽन्तरे ये लवास्तैरक्षांशान्तरांशैः प्रमाणभूतैरिदं चतुःक्रोशात्मक- योजनमानमतम् । तत्र नगरान्तरमुत्तरम् । दक्षिणोत्तरान्तररूपं योजनसंख्यामानम् । उत्तर- मिति तु न्यूनाद्यदेशादधिकाक्षदेश उत्तर एवेति नियमद्योतकम् । तेनैवाक्षांशसंबन्धिनगर- योस्तिर्यक्कर्णरूपमन्तरं न ग्राह्यमिति ध्येयम् । चेद्यदि स्यात् । फलत्वेनोपलभ्यते । तदा तर्हि । चक्रांशकैर्द्वादशराश्यंशैरिच्छारूपैः किम् । कियन्मानं लभ्यत इति । एवमुक्तस्व- रूपेण । अनुपातयुक्त्या । अनुपात्यत इत्यनुपातः । प्रमाणसंबन्धिफलमिच्छासंबन्धेन क्रियत इत्यर्थः । सद्बोधिका तयेत्यर्थः । परिधेर्भूगोलपरिधेः निरुक्तं प्रागुक्तमध्यमाधिकारोक्तम् । प्रमाणं योजनात्मकं युक्तम् । असन्नेत्यर्थः । तथा च भूमेर्गोलकत्वेन सर्वतस्तुल्यपरिधि- त्वाद्वक्षिणोत्तरभूपरिधिमानं भूमेर्भचक्रान्तःस्थिततया भचक्रदक्षिणोत्तरपरिधिसमसूत्रस्थं तत्स्थनगरद्वयान्तरज्ञातयोजनसंख्यासमसूत्रसंबन्धेन तत्तन्नगरसमसूत्रस्थितभगोलस्थस्थानद्व- यान्तरांशसंबद्धेति पलांशान्तरेण तज्ज्ञानसंभवादर्थाद्भचक्राधिष्ठितगोलवृत्ते चक्रांशानां सर्व- तस्तुल्यपरिधित्वेन सत्त्वात्तत्संबन्धेन भूपरिधिज्ञानं संभवत्येव । पलांशयोर्ध्रुवोन्नतयाद्युक्त- दिशैव तज्ज्ञानम् । पूर्वापरान्तरेऽन्यत्र वा तत्समसूत्रेण भगोलनियतस्थानव्यञ्जकतारादीना- मभावात्तदन्तरेण च तज्ज्ञानमसुलभम् । यद्यप्यंशानुपातस्य स्थूलत्वादेतत्कथनमनुचितं तथाऽप्यपरमतापेक्षया स्वमतयुक्तिसिद्धमित्युक्तौ तात्पर्यात्स्वल्पान्तराच्च न क्षतिः ।।१४।। केदारदत्तः – किसी भी गोलाकार पदार्थ की परिधि का अत्यन्त अल्प भाग सीधा समतल दिखाई देता है । पृथ्वी परिधि के किसी बिन्दु पर स्थित मानव की दृष्टि पृथ्वी में जहाँ तक पड़ती है वह वृत्तीय स्थान पूर्ण परिधि की अपेक्षा अत्यन्त लघु सीमा होने से दृष्टिगत भू-भाग सरलाकार ही दीखता है । वस्तुतः वह दृश्य भाग पृथ्वी के शतांश