भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 162, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 162

६० गोलाध्याये भूपृष्ठ में जो जहाँ रहता है वह अपने को पृथ्‍वी के ऊपर और ठीक १८०' की दूरी के नागरिक को नीचे (पातालगत) समझता है । वस्तुतः गोल पदार्थ गत गोल बिम्बस्थ जन्तु अपने से ऊपर आकाश को ही देखेगा नीचे नीच, निम्न कहीं कुछ भी नहीं है । ज्ञान से "अहम्" भाग जाता है । जैसे तालाब के किनारे खड़े हुये व्यक्ति का प्रतिबिम्ब जल में विपरीत ही दीखता है । इत्यादि ॥१७–२०॥ इदानीं द्वीपानां समुद्राणां च स्थानमाह— भूमेरर्धं क्षारसिन्धोरुदक्स्थं जम्बूद्वीपं प्राहूराचार्यवर्याः । अर्धेऽन्यस्मिन् द्वीपषट्कस्य याम्ये क्षारक्षीराद्याम्बुधीनां निवेशः ॥२१॥ लवणजलधिरादौ दुग्धसिन्धुश्च तस्मा- दमृतममृतरश्मिः श्रीश्च यस्माद्बभूव । महितचरणपद्मः पद्मजन्मादिदेवै- र्वसति सकलवासो वासुदेवश्च यत्र ॥२२॥ दध्नो घृतस्येक्षुरसस्य तस्मान्मद्यस्य च स्वादुजलस्य चान्त्यः । स्वादूदकान्तर्वडवानलोऽसौ पाताललोकाः पृथिवीपुटानि ॥२३॥ चञ्चत्फणामणिगणांशुकृतप्रकाशा एतेषु सासुरगणाः फणिनो वसन्ति । दीव्यन्ति दिव्यरमणीरमणीयदेहैः सिद्धाश्च तत्र च लसत्कनकावभासैः ॥२४॥ शाकं ततः शाल्मलमत्र कौशं क्रौञ्चं च गोमेदकपुष्करे च । द्वयोर्द्वयोरन्तरमेकमेकं समुद्रयोर्द्वीपमुदाहरन्ति ॥२५॥ वा० भा०—स्पष्टम् ॥२१–२५॥ मरीचिः—अथ कीदृग्द्वीपेत्यादिप्रश्नोत्तरं सामान्यतो भूगोलविभागाभ्यां शालिन्या- ऽऽह—भूमेरिति । क्षारसिन्धोः क्षारसमुद्रतीरादुदग्भागस्थं भूगोलस्यार्धं जम्बूद्वीपमाचार्य- वर्या ज्योतिःशास्त्रप्रवर्तकाचार्यवरिष्ठाः सूर्यादयः प्राहुः । प्रकर्षेण वदन्ति । एतेन क्षार- समुद्रवलयमध्ये मण्डलाकारं जम्बूद्वीपं पुराणप्रसिद्धम् । तथाऽत्र गोलार्धात्परक्षारसमुद्रवलय- वेष्टितं सूचितम् । अन्यस्मिन् द्वितीये । अर्धे गोलार्धे । याम्ये जम्बूद्वीपसक्ताक्षारसमुद्रतटाद्- दक्षिणदिक्स्थे । द्वीपषट्कस्य । क्षीरादिसमुद्राणां चात्रानुसंधेयो निवेशः । असंकीर्णसमावेशो-