भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 177, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 177

भुवनकोशः ७५ गङ्गा महाह्रदसंलग्ना चक्षुराख्या केतुमालम् । चकारात्पश्चिमभागस्थेलावृतप्रदेशमित्यर्थः । तन्मार्गेण समुद्रं गता । उत्तरप्रवाहात्मकगङ्गैकदेशरूपा श्वेतजलसंयुक्ता भद्राख्या । मेरोः सकाशादुत्तरस्थितान् कुरून् देशान् । चकारात्समुद्रं गतेत्यर्थः । कुरूनिति बहुवचनेन मेरूरुत्तरभागस्थेलावृतरम्यहिरण्मयकुरुवर्षप्रदेशमार्गेणेत्यर्थः ॥३८॥ अथ सेत्यनेन सूचितं महिमानं गीत्याऽऽह—येति । या गङ्गा विष्णुपादारविन्दमकरन्दरूपा । आकर्णिता श्रुता । अभिलाषिता । इच्छा- विषयीकृता । वाकारस्य प्रत्येकं समन्वयः । दृष्टा स्वदृग्भ्यां सादरमवलोकिता । स्पृष्टा शरीरैकदेशेन संस्पर्शविषयीकृता । अवगाहिता निखिलशरीरावयवैर्गङ्गाजलस्याऽऽलोडनं तद्विषयीकृता । पीता जलपानेन रसनाविषयीकृता । उक्ता गङ्गेति ताल्वोष्ठाभ्यामुच्चा- रिता । स्मृता ध्यानविषयीकृता । स्तुता नानाविधतत्त्वस्वरूपवर्णनविषयीकृता । बहुधा । अनेकशः । पापिनो महापातकोपपातकाद्याश्रितान् पुरुषान् मनुष्यान् । अपिशब्दात्प्रा- यश्चित्तानधिकारिपापिमनुष्यानित्यर्थः । पुनाति बहुप्रकारेण पापनिरासद्वाराऽतिशुद्धान् करोति । । पवित्रतासंपादनोत्तरं परमेश्वरसायुज्यं स्वतः सिद्धम् । सुकृतिनां तु किमाश्च- र्यम् । अत्राऽऽकर्णनाद्युक्तक्रमेणोत्तरत्र पूर्वोक्तस्योपजीव्यत्वम् । यथा श्रवणानन्तरं तदभि- लाषस्तदनन्तरं दर्शनेच्छेत्यादीति सूचितम् । अथ श्लेषेण शृङ्गारार्थः । या कान्ता मुख- चन्द्राधःकृतपूर्णशरच्चन्द्रोक्तक्रमविषयीकृता । बहुधाऽत्यन्तम् । पापिनः कामाभितप्तान- नुरागिणः पुरुषान् । पुनाति तद्विरहानलजनितदुःखापनोदनद्वारा सुखयतीत्यर्थः ॥३९॥ अथात्युत्कटमहिमान्तरं दोधकत्वेनाऽऽह—यामिति । नरे मनुष्ये । याम् । गङ्गां प्रति चलिते यामोत्युपक्रमं कुर्वति सति । तत्पितृसंघः । तस्योपक्रमयुक्तमनुष्यस्य । पितरः स्वपितृपितामहप्रपितामहादयो मातामहादयः श्वशुरादय इत्येषां संग्रहार्थं संघोपादानम् । दलिताखिलबन्धो दलिताः खण्डिता अखिलबन्धा यस्यासौ । तत्पितॄणां यमदूतनिबद्धपाशास्त्रुट्यन्ति । अनेनोपक्रमभङ्गे कृते पुनस्तन्निबन्धनं भवतीति पापं सूचितम् । गच्छति मार्गसंलग्ने सति । वल्गति । तत्पितृसंघोऽस्मत्कुलजे गङ्गां गच्छ- तीत्यस्माकमितो दुष्कृतकर्मविच्छेदात्सुरलोकवासोऽविलम्बेन भवतीति मत्वाऽऽनन्दति । एतेन मार्गात्परावर्तने पुनस्तेषां तद्दुःखं भवतीत्यधिकं पापं सूचितम् । प्राप्ततटे । प्राप्तं गङ्गा- तीरं येनैतादृशे कुलजे विजिताः पराभाविता गङ्गाबलेन मुष्टिघातादिभिरन्तकदूता यम- किंकरा येनैतादृशः पितृगणः सन्निरयान्नरकलोकात्सुरलोकं प्रति गच्छति । मज्जनादौ यत्फलं तदनिर्वचनीयमित्यपि सूचितम् ॥४०॥ केदारदत्त:—वैकुण्ठाधिनाथ भगवान् विष्णु के चरणों से मेरु शिखर में प्रवाह रूप से श्री गंगा नदी भूमण्डल में पतित (अवतरित) हुई हैं । आकाश से मेरु पर्वत में गंगा ने अपने प्रवाह की अपनी गतियों से पूर्वोक्त अरुण आदिक सरोवरों में होते हुये जम्बू द्वीप को पवित्र किया है ।