सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 176, कुल 723 में से
संदर्भ में पढ़ें७४ गोलाध्याये सीताख्या भद्राश्वं सालकनन्दा च भारतं वर्षम् । चक्षुश्च केतुमालं भद्राख्या चोत्तरान् कुरून् याता ॥३८॥ या कर्णिताभिलषिता दृष्टा स्पृष्टाऽवगाहिता पीता । उक्ता स्मृता वा पुनाति बहुधाऽपि पापिनः पुरुषान् ॥३९॥ यां चलिते दलिताखिलबन्धो गच्छति वलगति तत्पितृसंघः । प्राप्ततटे विजितान्तकदूतो याति नरे निर्यात् सुरलोकम् ॥४०॥ वा० भा०—गङ्गां यामीत्युपक्रमं कुर्वत्यपि नरे तस्य पितॄणां नरकस्थानां यमपाशबन्धास्त्रुटयन्ति । अथ गच्छति मार्गलग्ने तत्पितरो वलगन्ति । अस्मत्कुलजो गङ्गां गच्छति । अतोऽस्माकं दुष्कृतकर्मविच्छेदादूर्ध्वगतिर्भविष्यतीति हर्षेणोत्प- तन्ति । अथ प्राप्ततटे गङ्गासन्निस्थिते स्वकुलजे गङ्गाबलेन मुष्टिघातादिभिरन्तक- दूतान् जित्वा देवलोकं यान्ति । एवंविधाया गङ्गाया मन्दाकिन्याः किमन्यद्वर्ण्यत इत्यर्थः । शेषं स्पष्टम् ॥३७॥३८॥३९॥४०॥ मरीचिः—अथ प्रसङ्गाद्भगवच्चरणारविन्दस्मरणोपस्थितायास्तन्मकरन्दप्रवाहरूप- गङ्गायाः पुराणप्रसिद्धत्रिलोकागमनं स्वजन्मपाण्डित्यवाग्विलासकृतार्थतासंपादनार्थं ग्रन्थ- समाप्तिप्रचयप्रतिबन्धकीभूतविघ्ननिवारकमङ्गलाचरणार्थं च विवक्षुः प्रथमाधारपर्वतेषु गङ्गागमनमुद्गीत्याऽऽह—विष्णुपदीति । विष्णुपदी विष्णोश्चतुर्भुजस्य वैकुण्ठाधिवासिनः पदं चरणारविन्दं तस्येयं तत्संबन्धिनी गङ्गा । विष्णुपदात् । विष्णोः पीताम्बरस्य पदाद्वैकुण्ठस्थानान्मेरो उपरितनभागे मण्डला- कारे मध्ये प्रवाहरूपेण पतिता । अस्मान्मेरोः सकाशात् । चतुर्धा । आत्मानं प्रवाहरूपेण चतुर्भेदात्मकं संपाद्य समस्थलेषु जलप्रवाहस्यानेकत्वसंभवात् । वियता-आकाशमार्गेणाऽऽगता सती । आधारपर्वतोपरिभागस्थितसमीचीनप्रागुक्तारुणादिसरोवरेषु संगता संलग्ना । यत्तु विष्णुपदमाकाशं तत्रस्था वियद्गङ्गा मन्दाकिनी । विष्णुपदादाकाशादिति तन्न । पूर्वापर- ग्रन्थसंगत्यनुपपत्तेः । विना कारणं परमेश्वरसंबन्ध्यर्थापलापकर्तुः सर्वजनतिरस्कार- संभवःश्च ॥३७॥ अथेयं जम्बूद्वीपपवित्रतासंपादनार्थमिव जम्बूद्वीपेऽभित आगतेति गीत्याऽऽह—सीतेति । सा पुराणाद्युदितमहिमा गङ्गा । मेरुपूर्वभागस्थप्रवाहरूपेणारुणसरोवरमिलनद्वारा सीताख्या । मेरोः पूर्वभागस्थमिलावृतप्रदेशं पवित्रीकृत्य भद्राश्ववर्षं प्रति याता । तन्मार्गेण पर्वतादिभेदनं संपाद्य लवणसमुद्रं गतेत्यर्थः । मेरोर्दक्षिणभागगतप्रवाहात्मकगङ्गा मानससरो- वरसंगततयाऽलकनन्दा । भारतं वर्षमस्मदधिष्ठितभारतवर्षमार्गेण समुद्रं मिलिता । चकाराद्- दक्षिणभागस्थेलावृतप्रदेशहरिवर्षकिन्नरवर्षाणि संप्लाव्येत्यर्थः । पश्चिमभागगतप्रवाहात्मक-