सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 179, कुल 723 में से
संदर्भ में पढ़ेंभुवनकोशः ७७ वर्णव्यवस्थितिरिहैव कुमारिकाख्ये शेषेषु चान्त्यजजना निवसन्ति सर्वे । माहेन्द्रशुक्तिमलयर्क्षकपारियात्राः सह्यः सविन्ध्य इह सप्त कुलाचलाख्याः ॥४२॥ वा० भा०—स्पष्टम् ॥४१॥४२॥ मरीचिः—अथ भारतवर्षस्य नव खण्डानि वसन्ततिलकयाऽऽह--ऐन्द्रमिति । इह । अस्मदधिष्ठिते भारतवर्षमध्ये । लवणसमुद्रोत्तरतटहिमाद्र्योरन्तरालप्रदेशे । किल निश्चयेन । इत्युक्तक्रमेण यमकोट्यभिमुखहिमाद्र्यग्रात्पूर्वप्रदेशाद्रोमकाभिमुख- हिमान्त्यग्रपश्चिमभागपर्यन्तं दक्षिणोत्तराणि तिर्यग्रूपाणि खण्डानि । तत्र प्रथममैन्द्रं खण्डम् । द्वितीयं कशेरुखण्डम् । अन्यत्तृतीयं ताम्रपर्णी खण्डम् । अतोऽन्तरम् । चतुर्थं गभस्ति- मत्खण्डम् । चकारादेतदनन्तरं कुमारिकाखण्डं पञ्चमम् । चकारादस्मात्परं ष