भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 216, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 216

११४ गोलाध्यायः

नक्षत्राणां तेजोगोलत्वेऽपि भूभागानामुपष्टम्भकत्वस्वीकारात्परस्परं न्यूनाधिकतद्बिम्बदर्शनेन गुरुलघुत्वसिद्ध्या वायुना समकालभ्रमणानुपपत्तिः । नक्षत्राणां मूर्ताधारकल्पने च वायुना- ऽऽधारभ्रमणे तत्स्थानामतुल्यगुरुलघुबिम्बनक्षत्राणां समकालभ्रमणोपपत्तेः । न चैवं ग्रहगोला अपि मूर्ता एव कल्प्या इति वाच्यम् । ग्रहाणामूर्ध्वाधोगमनस्याणुपृथुबिम्बदर्शनेन प्रत्यक्ष- सिद्धस्यानुपपत्तेः बिम्बस्य गोलपरिधिभेदकत्वासिद्धेः । गोलस्य पञ्चमहाभूतत्वेन सदा ग्रहनक्षत्राणामदर्शनापत्तेः । पदार्थान्तरकल्पनस्य गौरवाच्च । कल्पनाया दृष्टमूलकत्वात् । एतेन सप्तग्रहाणां सप्ताकाशास्तदुपरि भचक्राकाशस्तदुपर्यप्याकाशोऽस्ति राशिसंज्ञः । स च नक्षत्रघटिषष्ट्या नियतपश्चिमगत्यैकवारं भ्रमति । तद्भ्रमणेनैव भचक्राकाशः शन्यादिक्षा- स्थानीयाः सजीवाः सावयवाः परस्परसंलग्ना आकाशाश्च पश्चिमाभिमुखं भ्रमन्ति । शन्याद्याकाशास्तु स्वशक्त्या पूर्वस्यां यान्ति । काचविमलमणिवन्निर्मलसचेतने सावयवे भूताद्यावेशवति स्वस्वकाशाधिष्ठिता नक्षत्रग्रहा भूदृष्ठस्थैः सम्यगेव दृश्यन्ते । यथा रत्न- घटमध्यस्थोऽपि दीपो दूरस्थैर्यथावस्थित एवावलोक्यते । खस्था गोलाकारा विशिष्टशक्ति- मन्तो भूमिवन्निराधारा जीवविशेषा एवाऽऽकाशशब्देनोच्यन्ते । तैराकाशैरेव मण्यादि- वत्स्वाधिष्ठितो निर्गतिकोऽपि ग्रह इतस्ततो नीयते । आकाशगतिरेव तत्स्थग्रहगतिरिति लोकैरुपचर्यते । कदलीपुष्पपुटवच्च तेषामाकाशानां संलग्नतेति यवनमतमपास्तम् । स्यादेतत् । नक्षत्रग्रहाणामुदयास्तदर्शनोपपत्त्यर्थं पश्चिमदिगभिमुखनियतगतिप्रवहवायोः कल्पनागौरवं किंतूक्तोपपत्त्यर्थं लाघवादभूमेरेव नियतपूर्वगतिः षष्टिनक्षत्रघटीनिष्पन्नपरि- वर्तनरूपा कल्प्यतां भपञ्जरस्तु स्थिर एव । विरुद्धभानं च नौस्थो विलोमगमनादचलं यथा च ना मन्यते चलति नैवमिला भ्रमेण । लङ्कासमापरगतिप्रचलङ्कचक्रमाभाति सुस्थिरमपीति वदन्ति केचिदिति सिद्धान्तशेखरे निरस्तमिति चेन्न । यदि च भ्रमति क्ष्मा तदा स्वकुलायं कथमाप्नुयुः खगाः । इषवोऽभिनभः समुज्झिता निपतन्तः स्युरपांपतेर्दिशि । पूर्वाशाभिमुखे भ्रमे भुवो वरुणाशाभिमुखो व्रजेद्धनः । अथ मन्दगमात्तदा भवेत्कथमेकेन दिवा परिभ्रमः । इत्यनेन लल्लेन । यद्येवमम्बरचरा विहगाः स्वनोडमासादयन्ति न खलु भ्रमणे धरित्र्याः । किंचाऽम्बुदा अपि न भूरिपयोमुचः स्युर्देशस्य पूर्वगमनेन चिराय हन्त । भूगोलवेगजनितेन समीरणेन केत्वादयोऽप्यपरदिग्गतयः सदा स्युः । प्रासादभूघरशिरांस्यपि संपतन्ति तस्माद्- भ्रमत्युडुगणस्त्वचलाऽचलैवेत्यनेन श्रीपतिना च तत्पक्षनिरासात् । भचक्रं ध्रुवयोर्बद्धमाक्षिप्तं प्रवहानिलैः । पर्यत्यजस्रं तन्नाधो ग्रहकक्षा यथाक्रममिति सूर्यसिद्धान्तोक्तेश्च ॥३॥ केदारदत्तः—वायु के विशेष नामों के व्याख्यान के साथ वायु के भेद बताये जा रहे हैं— सौरमण्डल के भीतर गोलाकार पृथिवी के ऊपर सात प्रकार के पवन (वायु) भी निरन्तर भूमण्डल के ऊपर आकाश में अपनी गतियों से प्रवाहित होते हैं या प्रचलन कर रहे हैं । जिनमें प्रथमादिक वायु गोलों के नाम इस प्रकार से हैं ।