सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 224, कुल 723 में से
संदर्भ में पढ़ें१२२ गोलाध्याये स्वरूपस्यापि तदाधेयत्वम् । अन्यथा वेगवज्जलाकृष्टत्वेन शिलाया अप्याधेयत्वापत्तिः । तादृशस्थले चाऽऽधारत्वप्रत्ययः पतनशीलताधर्ममुपादायोपपादनीयः । प्रयोगत्वौपचारिक एव । तस्माद्वाय्वाधेयस्वरूपयोग्यस्य सकलभपञ्जरस्य समवेगवदाधारवत्त्वेनैव नावलम्बः । आधाराधेयभावो मे जयत्वाच्चन्द्रतारकम् । सुहृदस्य बले दृप्तः को मामपकरिष्यतीत्याहु- स्तच्चिन्त्यम् । वायोर्ग्रहबिम्बाधारत्वे तत्पूर्वगत्यङ्गीकारेण पूर्वाधारवाय्वंशस्याग्रे गमनात्त- त्साहचर्येण ग्रहबिम्बानां भ्रमणसंभवादवलम्बनापत्तेः । विरलावयवेऽवलम्बनाभावस्यादृष्ट- त्वाच्च । किंच भस्त्रादिप्रयुक्तवायुवत्प्रवहवायावाधारत्वं नातिरिक्तं मानाभावान्तेन तस्यापि नायकत्वमात्रत्वग्रहबिम्बानामबलम्बननिवारणं ब्रह्मणोऽप्यशक्यम् । अपि च प्रवहवायौ सर्वांश- त्वावच्छेदेन समवेगकक्षाणां तुल्यकालभ्रमणानुपपत्तिः । तथा हि । शनिकक्षास्थितवाय्वं- शानां यथावेगस्तत्तुल्य एव यदि चन्द्रकक्षास्थितवाय्वंशानां वेगस्तदा चन्द्रकक्षावाय्वंशानां स्वल्पचन्द्रकक्षाभ्रमणकालेन तत्समसूत्रस्थशनिकक्षावाय्वंशानां महति शनिकक्षामार्गे चन्द्रक- क्षायोजनभ्रमणात्संपूर्णाशनिकक्षायोजनभ्रमणमनुपपन्नम् । तस्मात्प्रवहवाय्वंशानां स्वस्वमार्गे तुल्यकाले परिवर्तनसंभवादतुल्य एव वेगः । परमेककक्षास्थानां तुल्य एव । अत एव क्व- चिज्जलादौ गुरुल्घ्वोस्तुल्यगमनं क्रमेणाल्पमहद्वेगेन न तुल्यवेगेन । यत्रैकत्र गुरुल्घ्वस्थानेन गमनं तत्र गुर्वाश्रयादेव लघोरनग्रे गमनम् । तस्मादवलम्बनं ग्रहाणां त्वत्पक्षे निवारितुमश- क्यमेवेति दिक् । वस्तुतस्तु चन्द्रातिरिक्तग्रहनक्षत्रबिम्बानां तैजसत्वेऽधःकक्षाक्रमेण गुरुतो- धिक्यादवलम्बनापत्तिः । सूर्यव्यतिरिक्तानां व्यवधानादुष्णस्पर्शानुपलम्भेऽपि रात्रौ सकल- नक्षत्रग्रहबिम्बतेजःसंघातेनोष्णस्पर्शोपलम्भापत्तिः । सूर्यबिम्बापेक्षया गुरुशन्यादिबिम्बाना- मतिमहत्त्वात् । रात्रेपि प्रकाशप्राबल्यसंभवेन दिनत्वापत्तिश्चातोऽकरिक्तानां जलमयत्वं प्राचीनाभ्युपगतं युक्तम् । शृङ्गोन्नत्युपपत्त्यर्थं चन्द्रस्य जलगोलत्वाभ्युपगमस्याऽऽवश्यकतया तद्रीत्यैवान्येषां पञ्चताराग्रहनक्षत्राणां जलगोलत्वाभ्युपगमें बाधकाभावाच्च । जलस्य विरलावयवतया तत्पिण्डीभावानुपपत्त्या जलगोलकत्वं न संभवतीति भूभागानामुपष्टम्भ- कत्वं तत्र वाच्यम् । तेषां च प्रकाशकत्वं सूर्यकरप्रतिफलनादिति प्राग्बहुधोक्तम् । नचैवं भौमादिभ्यः शुक्रस्याधिकः प्रकाशः कुत इति वाच्यम् । तस्य भौमापेक्षयाऽतिसंनिहितत्वा- च्चन्द्रापेक्षया दूरस्थत्वाच्च महद्बिम्बत्वाच्च यथाक्रममधिकन्यूनप्रकाशाभाससंभवात् । बुधस्य तु चन्द्रादल्पबिम्बत्वादतिव्यवधानाच्चाल्पप्रकाशदर्शनम् । नन्वेवं चन्द्रबिम्बापेक्षया शुक्र- भौमादीनामधिकबिम्बत्वेन चाधिकगुरुत्वसंभवात्सुतरां चन्द्रबिम्बापेक्षयाऽवलम्बनापत्तिः । तैजसत्वे तु पूर्वगत्युपलम्भनेन यथायोग्यमवलम्बनम् । न च सूर्यमण्डले यावन्तो भूभागा उपष्टम्भकास्तावन्त एव भूजलयोः सर्वेषां बिम्बे भागा इति तुल्यगुरुत्वादवलम्बनानुपपत्ति- रिति वाच्यम् । योजनात्मकमानेन बिम्बानां तुल्यमानत्वापत्तेः । न चाऽऽदर्शकारमण्डलेषु समगुरुत्वेऽपि दृढविरलावयवतयाऽल्पमहन्मानोपपत्तिरिति वाच्यम् । ग्रहबिम्बानां गोलत्वेन तदसंभवादिति चेत्सत्यम् । भपञ्जरगोलोऽतिगुरुभूतः प्रवहवायुना बाह्याभ्यन्तरघातप्राबल्या- द्येन कालेन भ्रमति तेनैव कालेन शन्यादयोऽधःकक्षाक्रमेणापचितगुरुत्ववन्तः स्वस्वकक्षास्थि-