सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 226, कुल 723 में से
संदर्भ में पढ़ेंसंसर्गिमहीयसो महसो भूयस्त्वत्वादिरुत्कर्षस्तथा तथा तस्याभितः प्रसरः । अत एव तत्तत्प्रस- रानुसारं पूर्वापरौ याम्योत्तरौ विदिक्संभूतौ च यो याववधी तत्तदन्तरयोजनान्येव तस्य तस्य बिम्बयोजनविस्तृतं कन्दुकवदगम्यते । चन्द्रस्य तु जलमयो गोलस्तत्र चाधिष्ठातृपुरुषत्वेन कर्णधारनरवन्नियामकत्वेन स्थितो भगवानौषधीशो देवश्चन्द्रो विजयते । अथ ग्रहबिम्बानां गोलरूपाणां मुकुरोदराकारत्वप्रतीतिः कथमिति चेन्न । व्यवधानदोषादसौ वा भ्रम एव । यथा व्यवहिते पर्वतादौ महत्त्वेऽपि ह्रस्वत्वस्य वैषम्येऽपि समत्वस्यैव प्रकृतेऽपि तथा प्रति- भास इति । ते च ब्रह्मणो निवेक्षादन्तरिक्षे वायुवशाः स्वशरीराणि लोकोपकाराय नियुज्य प्रयत्नेन पूर्वतो वायुना च पश्चिमतो ब्रजन्ति । न मे तेजःसहः कश्चिदारख्यातुं नास्ति मे क्षण इति सूर्यसिद्धान्तवाक्यार्थपरिशोधनया शरीर