सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 228, कुल 723 में से
संदर्भ में पढ़ें१२६ गोलाध्याये खमध्य द्रष्टा ←क पृथ्वी में पृष्ठस्थान अ पृष्ठक्षितिज क' भूगर्भ बिन्दु क'' गर्भक्षितिज त च जैसे ख अ च त वृत्त में भूगोलीय पृष्ठ पर द्रष्टा का पृष्ठीय स्थान । प्रथम सूर्योदय के पृष्ठ क्षितिज में अ = नक्षत्र, क = ग्रह । द्वितीय सूर्योदय में अ = नक्षत्र अपने पूर्व दैनन्दिनीय बिन्दु पर है तथा क स्थानीय क' बिन्दु पर वही ग्रह नक्षत्र उदय के अनन्तर अ द्र क' सम्बन्धेन उत्पन्न काल के अनन्तर द्र-अ-क क्षितिज में दृश्य होगा ॥४॥ समं भसूर्यावुदितौ किलाऽऽर्क्ष्या षष्ट्या घटीनामुदितं पुनर्भम् । रविस्ततः स्वोदयभुक्तिघातात्खाभ्राष्टभू१८०० लब्धसमासुभिश्च॥५ समागतासुसंयुता रवेस्तु षष्टिनाडिकाः । स्फुटं द्युरात्रमुद्गमाद्युभुक्तिस्तश्च तच्चलम् ।।६।। षष्ट्या घटीनां भदिनं सदाक्ष्र्या तद्भुक्तितुल्यासुयुतं खरांशोः । स्यान्मध्यमं सावनमेवमब्दे तत्संख्यका भभ्रमतो निरेका ।।७।। वा० भा०—यदा किमपि नक्षत्रं सूर्यश्च किल समकालमुदितः । नह्यर्कोदय- वेलायां किमपि नक्षत्रमुपलभ्यते किंतु केवलाऽत्र युक्तिरुच्यत इति किलशब्दः प्रयुक्तः । तस्मात्कालानन्तरं नाक्षत्राणां घटीनां षष्ट्या ६० तन्नक्षत्रं पुनरुदेति । ततोऽनन्तरं रविरुदेति । स च कियता कालेन । तदर्थमनुपातः । रविः किल क्रान्तिवृत्ते स्फुटगत्या पूर्वतो गतः । यद्यष्टादशशतानि राशिकलाः स्वोदयासुभि- रुद्गच्छन्ति तदा स्फुटगतिकलाः कियद्भिरिति । एवं लब्धासुभिर्भोदयान्तरं रवेरुदयः । अत एव नाक्षत्राः षष्टिघटिकास्तैर्लब्धासुभिरधिका रवेः स्फुटं सावनमहोरात्रं भवति । तच्चाहोरात्रं चलम् । प्रत्यहमन्यादृक् । प्रत्यहं गत्यन्य-