सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 233, कुल 723 में से
संदर्भ में पढ़ेंमध्यगतिवासना १३१ केदारदत्तः—एक सौर वर्ष की सावन दिन संख्या = ३६५ दिन १५ घटी, ३० पल २२ विपल और ३० प्रति विपल होती हैं । सौर वर्ष की दिन संख्या का बारहवां विभाग सौर मास एवं ३० संख्या तुल्य सावन दिनों का एक सावन मास होता है । उपपत्ति—मध्यमाधिकार इसी ग्रन्थ का केदारत्तीय शिखाभाष्य देखिये । इसी ग्रन्थ का पूर्व भाग ग्रहगणिताध्याय मध्यमाधिकार का “शिखा” भाष्य देखिये ॥८॥ इदानीं चान्द्रमासमाह— कालेन येनैति पुनः शशीनं क्रामन् भचक्रं विवरेण गत्योः । मासः स चान्द्रोऽङ्कयमाः कुरामाः पूर्णांषव २९।३१।५० स्तत्कुदिन- प्रमाणम् ॥९॥ वा० भा०—दर्शान्ते किल शशी रविणा युक्तो भवति । ततो द्वावपि पूर्वत गच्छतः । तयोः शशी शीघ्रगत्वारप्रत्यहं गत्यन्तरेणाग्रतो याति । एवं गच्छंश्चक्र- कला २१६०० तुल्यमन्तरं यदाऽग्रतो याति तदा रविणा योगमेति । तयोः काल- योरन्तरालं चान्द्रमासः । तत्प्रमाणमनुपातेन । चन्द्रार्कयोर्मध्यगती आदौ सम्यक् सावयवे कृत्वा यदि गत्यन्तरेणैकं कुदिनं लभ्यन्ते तदा चक्रकलातुल्येनान्तरेण कियन्तीत्यनुपातेन चान्द्रमासे कुदिनानि लभ्यन्ते । एकोनत्रिंशद्दिनान्येकत्रिंशद्- घटिकाः पञ्चाशत् पलानि २९।३१।५० इत्युपपन्नम् ॥९॥ मरीचिः—अथोभयोरुपपत्त्यर्थं चान्द्रमासस्वरूपं तन्मानं सूर्यसावनदिनात्मकं चेन्द्रव- ज्रयाऽऽह—कालेनेति । चन्द्रसूर्यगत्योरन्तरेण प्रत्यहं सूर्याधिकगमनन भचक्रं द्वादशराश्यात्मकं क्रामन्भ्रमन्येन कालेन सूर्य प्रति पुनर्द्वितीयवारमेति युनक्ति । अनेन यत्काले द्वयोर्योगस्तत्कालयोरवधित्वं द्योत्यते । स कालश्चान्द्रो मासः । सूर्यचन्द्रयोर्भगणान्तरेण चान्द्रमासो दर्शान्तावधिरूप इत्यर्थः । तस्य सूर्यसावनदिनानि मध्यान्याह—अङ्कयमा इति । तस्य चन्द्रमासस्य कुदि- नानां सौरसावनदिवसानां प्रमाणं संख्यामानं मध्यमेकोनत्रिंशद्दिवसाः । एकत्रिंशद्घटिकाः पञ्चाशत्पलानीति । अत्रोपपत्तिः । क्रामन्भचक्रं विवरेण गत्योरित्यनेन गत्यन्तरेणैकं सूर्यसावनदिनं तदा चक्रांशकलाभिः किमित्यनुपातः सूचित एव । अत्र क्वचिदप्यवयवे निःशेषत्वाददर्शनावयवैकदेशास्त्यक्ताः ॥९॥ केदारदत्तः—सूर्यचन्द्रमा के अमान्त काल के प्रथम योग के अनन्तर पुनः जितने समय में द्वितीय योग (द्वितीय अमान्त) होता है उसे चान्द्रमास कहते हैं । एकचान्द्र मास की सावन दिन संख्या २९।३१।५०'''' होती हैं ।