सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 240, कुल 723 में से
संदर्भ में पढ़ें१३८ गोलाध्याये अस्य प्रश्नस्योत्तरमाह— दर्शावधिश्चान्द्रसमो हि मासः सौरस्तु संक्रान्त्यवधिर्यतोऽतः । दर्शश्रितः संक्रमकालतः प्राक् सदैव तिष्ठत्याधिमासशेषम् ॥१६॥ दर्शान्ततो याततिथिप्रमाणैः सौरैस्तु सौरा दिवसाः समेताः । यतोऽधिशेषोत्थदिनाधिकास्ते त्यक्तं तदस्मादधिमासशेषम् ॥१७॥ तिथ्यन्तसूर्योदययोस्तु मध्ये सदैव तिष्ठत्यवमावशेषम् । त्यक्तेन तेनोदयकालिकः स्यात्तिथ्यन्तकाले द्युगणोऽन्यथाऽतः ॥१८॥ वा० भा०—मध्यममानेन यावत्यमावास्या तदन्ते चान्द्रमासान्तः । मध्य- मार्कस्य यस्मिन् दिने संक्रान्तिस्तत्र संक्रान्तिकाल रविमासान्तः । तयो रविचन्द्र- मासान्तयोरन्तरे यावत्यस्तिथयः सावयवास्ता अधिमासशेषतिथयः । यतः सौर- चान्द्रान्तरमधिमासाः । अहर्गणानयने गताब्दा रविगुणास्ते सौरा मासा जाताः । अतस्तेषु चैत्रादिचान्द्रतुल्याः सौरा एव मासा योजितास्ते संक्रान्त्यवधयो जाता- स्तेषु त्रिंशद्गुणेषु गततिथितुल्याः सौरा एव दिवसा योजिताः । अतः सौरचान्द्रा- न्तरेणाधिका जातास्तदन्तरमधिमासशेषदिनानि भवन्ति । सौरचान्द्रान्तरत्वात् । अतोऽधिमासशेषदिनान्येभ्यः शोध्यानि । अथ चाधिमासानयनेऽनुपातलब्धैरधि- मासैर्दिनीकृतैस्तच्छेषदिनैश्च युक्ताः सौराहाश्चान्द्राहा भवितुमर्हन्ति । एवमत्राधि- मासशेषदिनानि क्षेप्याणि । तत्र शोध्यानि । अतः कारणादधिमासशेषं त्यक्तम् । अथावमशेषत्यागकारणमुच्यते । तिथ्यन्तानन्तरं यावतीभिर्घटिभिः सूर्योदयस्ता अवशेषघटिकाः । यतश्चान्द्रसावनान्तरमवमानि । यद्यवमशेषं न त्यज्यते लब्धा- वमैरवमशेषघटिकाभिश्च तिथय ऊनीक्रियन्ते तदा तिथ्यन्ते सावनोऽहर्गणो भवति । अथ च सूर्योदयावधिः साध्यः । तिथ्यन्ताहर्गणोऽवमशेषघटीभिर्युक्तः सन्नुदयावधिर्भवति । अतोऽवमशेषे त्यक्ते स्वतः सूर्योदयावधिर्भवति । १५।१६। १७।१८। मरीचिः—अथाहर्गणसाधनोपजीव्याधिमासावमस्वरूपं प्रतिपाद्याहर्गणस्य संसिद्धत्व- व्यवस्थापनं विवक्षुः प्रथमं तत्प्रतिपादनेच्छोपयोग्यं पूर्वार्धोक्ताहर्गणानयनखण्डनरूपशिष्य- प्रश्नमुपजातिकयाऽऽह—अहर्गणस्येति । हे गणक । साधुत्वेन स्वीकृतोक्ताहर्गणानयने । अहर्गणस्य ग्रहज्ञानोपजीव्य- भूतस्याऽऽनयनप्रकारोक्तौ । मध्याधिकरोक्तकथितकल्पगतोऽर्कसमागण इत्यादिश्लोकत्रय- निबद्धे अर्कमासाः कथितकल्पगतोऽर्कसमागणो रविगुण इत्यनेन जाताः । चैत्रादिगतचान्द्र- मासैः । किं कुतोऽन्विताः। गतमाससमन्वित इत्यनेन चैत्रादिगतचन्द्रमासैर्योजयितुं न युक्ताः ।