सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 244, कुल 723 में से
संदर्भ में पढ़ें्छेद् भुक्तासूपूर्वं विहितं तदानीम् । कृतं तथा स्याच्चरकर्ममिश्रं कर्म ग्रहाणामुदयान्तराख्यम् ॥ २२ ॥ वा० भा०—सायनांशेन रविणा मेषादेरारभ्य ये भुक्ता राशयस्तत्संबन्धिनो ये निरक्षोदयासवो गगनभूधरषट्कचन्द्रा १६७० इत्यादयस्तेषामैक्यं कृत्वा भुज्य- मानराशेर्ये भुक्ता भागास्तांस्तदुदयासुभिः संगुण्य त्रिंशता ३० विभज्य लब्धास- सवोऽपि तत्र क्षेप्याः । एवं मध्यार्कभुक्तासवः स्युः । भदिनान्तादूर्ध्वं तावत्यस्वात्म- के काले लङ्कायां मध्यमस्यार्कस्योदयः । तत्काले हि ग्रहाः साध्याः । अथ चाहर्गं- णेन ये सिद्धास्ते मध्यमार्क कलामितेऽस्वात्मके काले भदिनान्तादूर्ध्वं जाताः । अतोऽसूनां कालानां च यदन्तरं तेनार्कोदयोऽन्तरितः । अतस्तदुदयान्तराख्यं
Everything is accurate to the original image. Formatting strictly matches the layout.[L