भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 246, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 246

१४४ गोलाध्याये सावनमानेन कल्पादनुपातसिद्धो योऽहर्गणो यश्च मध्यगतिकलोत्पन्नासुयुतषष्टिघटीमितप्रति- पादितभिन्नसावनेन गणनयाऽहर्गणस्तयोरन्तरमभीष्टकाले यत्सावनजनितान्तरं तत्र स्फुटमध्य- सावनानां वर्षेऽभिमतत्वाद्यावन्तः कल्पादभीष्टवर्षदौ मध्यमसावनाहास्तावन्तः स्फुटसावनदिवसा इति तयोरहर्गणयोः कल्पाद्यान्तरं येन बहुदिनान्तरसंभावना । अपि तु वर्तमानसौरवर्षादिरेव तयोरन्तरम् । तत्रापि मानयोर्गतितुल्यासु मध्यगत्युत्पन्नासु जनितयोर्मध्यस्पष्टयोरन्तरेणैव तदुपपत्तेः सौरवर्षादिरभीष्टकालपर्यन्तं सूर्यस्य मध्यगतिभोगेनैवानुपातजत्वान्मध्यार्ककला- तुल्या असवः साधिताहर्गणसंबद्धा यत्संख्याका भवन्ति । मध्यार्कस्य प्रतिराश्युदयकाल- भेदेनोक्तरीत्या यत्संख्याका असवो नियतमध्यममानावगताहर्गणसंबद्धाः । चः समुच्चये । तयोरन्तरं यत्संख्याकं भवति तदेवास्र्फुटमध्ययोः, अनियतमध्यममानावगतोक्तमानानुपात- जयोरहर्गणयोरन्तरं स्यान्नान्यत् । षष्टिघटीनामुभयत्र संबन्धादित्यर्थः । न चेदमन्तरमहर्गणे संस्कार्यं ततोऽस्मादुक्तरीत्या ग्रहसाधनं युक्तमिति स्पष्टाधिकारे ग्रहाणामुद्यान्तरसंस्कारः कथमूक्त इत्यत आह— गतिघ्नमिति । तदन्तरे स्वस्वमध्यगत्या कलात्मिकया गुणितं मध्य- गत्युत्पन्नासुजनिताहोरात्रमानासुभिर्भक्तं लब्धदिना ग्रहा यथायोग्यं हीनाः यद्यसवः कला- भ्योऽल्पा भवन्ति । तदन्यथा । उक्तवैपरीत्ये । कलाभ्योऽसुनामधिकत्वे तुकाराल्लब्धकला- दिना ग्रहा इति लाभः । युक्ताः । असुकालस्य मुक्तत्वादित्यर्थः । तथा च विनार्कज्ञानं तत्संस्कारोऽहर्गणे कर्तुं न शक्यते । सावयवाहर्गणाद्गुणनादौ प्रयासाच्च लाघवाच्चालनं ग्रहे ऋणधनं दत्तमिति भावः । नन्वेवं पूर्वोक्तादधिकसंस्कारोक्त्या गौरवमेवेत्यत आह— निजोदयैरिति । यदि स्वदेशराश्युदयासुभिर्भक्तासुपूर्वं सावनमध्यार्कासवः । पूर्वशब्दाद- होरात्रासव इत्यर्थः । विहितं कृतं तदानीमुद्यान्तराख्यं कर्म चरकर्ममिश्रं चरसंस्कृतं कृतम् । ग्रहाणां संस्कृतं यथा स्यात्तथा कृतं भवतीत्यर्थः । तथा च यदि निरक्षदेशो- दयैरुद्यान्तरं साध्यते तदा खलु गौरवं स्वदेशोदयैस्तु भिन्नचरसंस्काराकरणे भोद्यान्तर- संस्कारेण तत्सिद्धे गौरवानवकाश इति भावः । तदपेक्षया लाघवं च स्पष्टाधिकारे प्रति- पादितम् ॥१९॥२०॥२१॥२२॥ केदारदत्तः— स्पष्ट और मध्यम सावन दिनों का कालात्मक अन्तर उदयान्तर गणित बताया जा रहा है—स्पष्ट सावन दिन चल है, एक रूप स्थिर नहीं है अतः एव चल सावन से दिन गणना का अनुपात करना संभव नहीं है अत एव मध्यम मानीय सावनदिन संख्यात्मक अहर्गण साधित होता है । सभी गणित-विषय स्फुट सावनात्मक अहर्गण से सम्बन्धित है । गणित साधन क्रिया के अभाव से मध्यममानीय अहर्गण से ग्रहों का सूक्ष्म स्थान ज्ञात किया गया है अत एव मध्यम सावनमान से साधित अहर्गणोत्पन्न ग्रहों की स्थूलता को समझ कर “उदयान्तर” नामक प्रसिद्ध गणित गवेषणा से प्राप्त मध्यम सावन दिन और स्पष्ट सावन दिनात्मक अन्तर काल से गुणित ग्रह गतियों से प्राप्त विकलात्मक अन्तर (संस्कार) को मध्यम सावन साधित ग्रहों में देने से ही लङ्कोदयकालिक ग्रह स्पष्ट होते हैं ।