सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 262, कुल 723 में से
संदर्भ में पढ़ें१६० गोलाध्याये तस्मात्कारणात् । इह । अहर्गणानुपातसिद्धमध्यग्रहे । तज्जैर्मध्यस्पष्टविवेकविद्भिः पूर्वाचार्यैस्तत्स्पष्टाधिकारोक्तं दोःफलं केन्द्रभुजसाधितफलं मन्दं शैघ्यं च । साक्षात्परम्परा- संबन्धेन क्रियते संस्क्रियत इत्यर्थः । कारणमाह—भूस्थ इति । हि यतो भूस्थो भूगर्भस्थो द्रष्टा ग्रहबिम्बद्रष्टा भवलये क्रान्तिवृत्ते वक्ष्यमाणरूपे मध्यतुल्यमहर्गणानुपातसिद्धमध्यग्रह- भोगतुल्यं ग्रहबिम्बस्थानं न पश्येत् । अयमर्थः । क्रान्तिवृत्ते रेवतीस्थानान्मेषाद्यङ्कितद्वा- दशराशिभागकलाविकलाङ्किते यत्राहर्गणानुपातसिद्धग्रहभोगमित्या रेवतीस्थानाद्ग्रहचिह्नं तत्समसूत्रेण ग्रहकक्षायां ग्रहबिम्बं न पश्यति । यत्र च ग्रहबिम्बं पश्यति तत्समसूत्रेण क्रान्तिवृत्ते स्थानं पूर्वग्रहचिह्नं तत्समसूत्रेण ग्रहकक्षायां ग्रहबिम्बं न पश्यति । यत्र च ग्रह- बिम्बं पश्यति तत्समसूत्रेण क्रान्तिवृत्ते स्थानं पूर्वग्रहचिह्नात्प्रागपरत्र भवति । तत्रातस्त- त्स्थानयोरन्तरं फलं तेन पूर्वग्रहचिह्नमहर्गणानुपातसिद्धं संस्कृतं स्पष्टग्रहस्थानं भवति । तत्र ग्रहबिम्बस्य समसूत्रेण दर्शनात्स्पष्टत्वम् । अत एव पूर्वग्रहचिह्नसमसूत्रेण ग्रहबिम्बादर्श- नादहर्गणानुपातसिद्धो ग्रहो मध्यो न स्फुट इति प्रत्यक्षप्रमाणसिद्धम् । अत्रापि कारणमाह- भूमेरिति । यतः कारणात् । भूमेर्मध्ये भूगोलमध्यकेन्द्रभागे । भवलयस्य नक्षत्रपञ्जर- गोलस्य खलु निश्चयेन मध्यं केन्द्रं तदैक्यसंबन्धेन । अपिशब्दान्नक्षत्रगोलानुसृतस्वस्वकाश- भागे प्रवहभ्रमानुसृतग्रहकक्षावृत्तानां भूगर्भे केन्द्रमित्यर्थः । ग्रहः पूर्वगत्या यस्मिन्वृत्ते भ्रमति भगणभोगं करोति । अस्य वृत्तस्य मध्यं केन्द्रं कुमध्ये भूगोलगर्भे न स्यात् । तथा च नक्ष- त्राणां सदैकरूपदर्शनाद्भूगोलाभितः समान्तरेण नक्षत्रगोलोऽस्तीति क्रान्तिवृत्तमपि तथा- ऽस्ति । ग्रहबिम्बानामेकरूपत्वेन दर्शनाभावादणुपृथुबिम्बदर्शनान्यथानुपपत्त्या ग्रहबिम्बाधि- ष्ठितवृत्तं कक्षावृत्तभिन्नत्वेन लाघवात्कल्पितं भूगोलाभितः समान्तरेण नास्तीति क्रान्तिवृ- त्ताङ्कितमेषादिराशिभागाद्यनुरुद्धसमसूत्रेण ग्रहाधिष्ठितवृत्ताङ्कितमेषादिराश्यादिकं न स्या- दिति गणितस्य भूगर्भसंबन्धेनोक्तत्वादहर्गणानुपातसिद्धं क्रान्तिवृत्तानुसृतकक्षावृत्तस्थमध्य- ग्रहचिह्नसमसूत्रेण ग्रहबिम्बादर्शनं युक्तमुक्तम् । यत्कक्षाप्रदेशसमसूत्रेण ग्रहबिम्बदर्शनं तत्क- क्षाप्रदेशे मेषादिराश्यादिमानं स्पष्टग्रहभोग इति मध्यस्पष्टग्रहस्थानयोरन्तरं फलं धनमृणं मध्यग्रहे स्पष्टग्रहज्ञानार्थं क्रियत इति फलितार्थः ॥७॥ केदारदत्तः—ग्रह कक्षा केन्द्र भूकेन्द्र से भिन्न है— भूगर्भकेन्द्र से त्रिज्या व्यासार्ध से उत्पन्न वृत्त को क्रान्ति वृत्त या राशि वृत्त कहा जाता है । अर्थात् अश्विनी आदिक अनेक नक्षत्रों से युक्त वृत्त का नाम क्रान्ति वृत्त है वह भूमि के चारों तरफ समान दूरी पर है । भूपरिधि का गर्भ केन्द्र भूकेन्द्र, उक्त नक्षत्र कक्षादि जिसका अपर नाम क्रान्ति वृत्त है उस वृत्त का केन्द्र बिन्दु भू गर्भ बिन्दु है । लेकिन ग्रह बिम्ब जिन वृत्तों से गमन कर अश्विनी आदिक नक्षत्रों का भोग करते हैं उन वृत्तों का केन्द्र बिन्दु भूगर्भ बिन्दु नहीं है । भू पृष्ठ से द्रष्टा की दृष्टि गणितागत मध्यम ग्रह पर अर्थात् कक्षा वृत्तस्थ मध्यम ग्रह स्थान पर नहीं हो सकने से मध्यम ग्रह का स्थान स्पष्ट ग्रह के स्थान से भिन्न दृष्टि पथ में