भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 275, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 275

ननु फलोपपत्त्यर्थमूर्ध्वरेखासंबन्ध्युच्चसंज्ञं कुतः कृतम् । तदितसंज्ञापेक्षायां कारणा- भावादित्यतस्तदुत्तरमुच्चगत्युपपत्ति चोपजातिकायाऽऽह—यः स्यादिति । भुवो भूगोलगर्भात्प्रतिवृत्तमण्डलस्य यः प्रदेशो दूरे स्यात्तस्य प्रदेशस्योच्चसंज्ञा कृता । उच्च- त्वात् । तथा च ग्रहाधिष्ठितप्रतिवृत्तस्य भूगर्भे मध्यप्रदेशाभावाद्भू मध्यात्प्रतिवृत्तमेकदेशे- नोच्चं भवत्येवेति तत्प्रदेशादूर्ध्वरेखाया भुजज्यादिमूलत्वादतस्तत्प्रदेशान्मेषादिभोगमिति। ज्ञानार्थमुच्चमहर्गणानुपातसिद्धत्वमुक्तम् । तत्रोच्चभोगज्ञानार्थमेव कक्षायामुच्चप्रदेशा- भावेऽप्युच्चस्थानमङ्गीकृतमिति भावः । ननूच्चप्रदेशस्यैकत्वेनाहर्गणानुपातसिद्धोच्चं प्रतिदिन- विलक्षणमसंगतम् । नहि कक्षावृत्तं विलोमगत्या प्रत्यहं किंचिच्चलति । येन तदुपपत्तिः । कक्षाप्रदेशस्याऽऽकाशरूपत्वेन चलनासंभवादित्यत आह—सोऽपीति इति । यतः स प्रतिवृत्त- संबन्धी प्रदेशश्चलति । कक्षायांमितस्वपूर्वगत्या भवति । यत्कक्षाप्रदेशसमसूत्रेणापि यद्दिने. तद्द्वितीयदिने तत्कक्षाप्रदेशाग्रिमप्रदेशस्य समसूत्रेणभव तीत्यर्थः । अपिशब्दात्प्रतिवृत्तप्रदेश- स्याऽऽकाशरूपत्वेन स्थिरत्वेऽपि बाह्यात्मकत्वकल्पनेन तद्गमनमन्यथानुपपत्त्या कल्प्यत इत्यपि सूचितम् । तस्मात्कारणात्तुङ्गगतिरुच्चस्य गतिः प्रत्यहं गतिज्ञैस्तद्विशेषसूक्ष्मप्रमेया- भिज्ञैः प्रकल्पिता । अनेनावस्तुभूतमपि दृष्टफलोपपत्तिप्रतिपादनार्थमङ्गीक्रियत इति स्पष्ट- मुक्तम् । तथा च यत्कक्षाप्रदेशसमसूत्रस्थप्रतिवृत्तोच्चस्थानादुक्तरीत्या फलमुपपादितं यद्दिने [तत्] द्वितीयदिने तदुक्तरीत्यैव तदुच्चस्थानादवगतफलं ब्रह्मादिभिर्विसंवादि दृष्टम् । तत्कर्ण- सिद्धस्पष्टग्रहस्थानद्वारा ग्रहबिम्बादर्शनात् । तैश्च पूर्वोच्चस्थानात्किंचिदन्तरेण कक्षामार्गे सव्ये उच्चस्थाने कल्पिते । तस्मादुक्तरीत्या प्रतिवृत्तकरणेनोक्तरीत्या द्वितीयदिने फलसंवाद- दर्शनादुच्चं प्रतिक्षणं विलक्षणमस्तीति कल्पितम् । तदुपपत्त्यवगमार्थं च भूगर्भादन्त्यफलज्या- युतत्रिज्याव्यासाधेन यद्वृत्तमाकाशरूपं तत्र यदिने यस्मिन्प्रदेश उच्चं तद्द्वितीयदिने तस्मा- त्सव्येनाग्रिमप्रदेश उच्चमिति विनिगमनाविरहात्क्रमेण तद्वृत्तप्रदेशानामुच्चत्वमङ्गीकृतम् । तत्रोच्चस्थाने प्रतिवृत्तोच्चप्रदेशपरिध्येकदेशसंलग्नताया आवश्यकत्वादन्यथोच्चत्वव्याघात इति भूगर्भादन्त्यफलज्यान्तरेण प्रतिवृत्तमध्यमनुदिनं सव्येन चलतीति कल्पनात्प्रतिवृत्तमेव चलितं तच्चलनेन कक्षायामुच्चं चलतीति सिद्धम् । अनेकप्रतिक्षणकल्पितप्रतिवृत्तेभ्यः कल्पितैकप्रतिवृत्तगतिकल्पनस्य लघुभूतत्वान्न क्षतिरुक्तार्थ इति भावः ॥२०॥ नन्वनुभवविरुद्धमुच्चचलनं कथमङ्गीक्रियत इत्यतोऽस्य फलोपपत्तये प्रकल्पितं तुङ्गमिवि कुत इति पूर्वपक्षोत्तरकथनच्छलेनेन्द्रवज्रया तदुत्तरमाह—उच्चादिति । उच्चस्थानात्षड्राश्यन्तरेण प्रतिवृत्ते कक्षायां वा यत्स्थानं तत्र नीचं••••काराद्यथोच्चं चलति तथा नीचमपि चलति । तयोरूर्ध्वरेखासंबन्धेन षड्राश्यन्तर इति नियमात् । यदा यस्मिन्नभीष्टकाले मध्याहर्गणानीतो मन्दस्फुटो वेति यथायोग्यम् । स्वनीचोच्चसमो मान्द्यं शैघ्यं स्वपदेन विवक्षितम् । तच्च तन्नीचोच्चं च यथायोग्यं तत्तुल्यं स्यात्तदानीं तदभीष्ट- काले । स्फुटो ग्रहो मन्दफलसंस्कृतः शीघ्रफलसंस्कृतो वा मध्यसमः । यथायोग्यमहर्गणानी-