सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 278, कुल 723 में से
संदर्भ में पढ़ें१७६ गोलाध्याये क्रमेणाणुबिम्बः सूक्ष्मबिम्बः पृथुलः स्थूलबिम्बो भाति। भूपृष्ठस्थमनुष्याणां भासते। चकाराद्यथोच्चाद्ग्रहस्यान्तरं तथा तथा बिम्बं बर्धते नीचाद्यथान्तरं तथा हसतीति सूचितम्। भातीत्यनेन ग्रहबिम्बस्याविकृतस्य दर्शनं तथा भवति। ननु वस्तुतस्तदुपचया- पचयाविति द्योतितम्। तथा च प्रतिवृत्तस्थग्रहस्योच्चस्थाने भुवो दूरस्थत्वाद्ग्रहबिम्बं सूक्ष्मम्। नीचस्थाने निकटत्वान्महद्दृश्यत इति प्रत्यक्षानुभवादुच्चस्थानान्नीचस्थत्वं काल- क्रमेणैव संभवतीति ग्रहस्य प्रतिवृत्तावस्थानं तत्त्वत एव। कक्षावृत्तस्थत्वे तु तस्य भूमितो- ऽभितस्तुल्यान्तरत्वादविकृतग्रहबिम्बदर्शनापत्तेस्तदितरवृत्तावस्थाने मानाभावाच्चेति भावः। नीचस्थोऽपि कदाचित्सूक्ष्ममूर्तिर्दृश्यत इत्याशङ्क्याऽऽह—भानोरिति। सूर्य्यासकाशादासन्न- सुदूरवर्ती ग्रहः पूर्वापरान्तरेण क्रमेण तथा। अत एवाणुबिम्बो महाबिम्बश्च भाति। तथा च सूर्यमण्डलाद्यथा ग्रह आसन्नस्तथा सूर्यकिरणप्रतिहतनयनैर्ग्रहबिम्बं निष्प्रभमल्पं च दृश्यत इति सूर्यासन्नस्य नीचस्थत्वेऽप्यल्पमूर्तिदर्शनमविरुद्धं सूर्यमण्डलाद्यथा ग्रहेऽतिदूरे तथा सूर्य- किरणाप्रतिहतनयनैर्ग्रहबिम्बं सप्रभं महच्च दृश्यते। अत एव कालांशान्तरेनास्तोदयारम्भौ। न सूर्यसांनिध्यदूरत्वाभ्यां ग्रहबिम्बापचयोपचयौ। तस्याविकृतत्वादन्यथा तद्वशेनपि बिम्ब- साधनापत्तेरिति भावः ॥२२॥ अथोक्तमुपसंहरन्नुपपत्तिप्रतिपादकप्रकारान्तरमिन्द्रवज्रया प्रतिजानीते—उक्तेति। स्पष्टीकृतेः स्पष्टाधिकारोक्तगणितक्रियाया युक्तिः पदार्थस्वरूपक्षोदरूपा एषा प्रति- पादिता। प्रतिवृत्तभङ्ग्या प्रतिवृत्तरचनया मया भास्कराचार्येण उक्ता। ननु ग्रहपरफलमौर्व्या दत्तयोर्ध्वं कुमध्यात्प्रतिबलयमिदं स्याद्घासखण्डेन वृत्तम्। भवति हि निजकक्षामण्डलाग्रे यदन्यत्परफलगुणवृत्तं स्वोच्चनीचाख्यमेतत्। इत्यादिना पूर्वाचार्यैः प्रतिवृत्तनीचोच्चवृत्तयोः कक्षावृत्ते लिखनप्रतिपादनात्तद्विरुद्धं केवलं प्रतिवृत्तरचनं कथमुक्तमित्यत आह—पृथगिति। श्रोतुः स्पष्टीकृतिवासनाजिज्ञासोः। असं भ्रमार्थम्। सम्यगपनेतुमशक्यो यो भ्रमस्तत्त्वाज्ञानं तद्विरुद्धोऽसंभ्रमस्तत्संपादननिमित्तं शिष्यस्य तत्र दुरूहत्याऽबोधो मा भवत्वित्येतदर्थमित्यर्थः। पृथङ्नीचोच्चवृत्तव्यतिरेकेण केवलं प्रतिवृत्तरचनोक्तेत्यर्थः। तथा च शिष्याणां पूर्वोक्तौ वृत्तद्वयसद्भावादेक एव ग्रहस्तत्रात्र च कथं भ्रमतीति भ्रमो भवति। तद्वृत्तमुच्चाभिमुखमुल्लिखेदित्याद्यनुक्तेश्च मया युक्त्युप- जीव्यमात्रमेव तदुक्तमधिकत्यागेनोक्तमित्यविरुद्धमिति भावः। ननु नीचोच्चवृत्ते यज्ज्ञानं तत्प्रतिवृत्ते कथं स्यादिति तत्त्यागोऽनुचित इत्यत आह—तामिति। स्पष्टीकृतिवासनाम्। पुनर्द्वितीयवारम्। अन्यथा—उक्तरीत्यन्यरीत्या। नीचोच्चवृत्तस्य भङ्ग्या अहं भास्करा- चार्यः समनन्तरमेव वच्मि। अत्रापि पृथक्श्रोतुर्सम्भ्रमार्थमित्यन्वेति। तेन प्रतिवृत्तत्यागा- त्केवलं नीचोच्चवृत्तरचनया युक्तिं वदामीत्यर्थस्तथा च तज्ज्ञानसंभवान्न क्षतिरिति भावः। नत्वे(न्वे)कमेकत्र तदुभयलिखनं पूर्वाचार्यैरुक्तं युक्तम्। लाघवात्। त्वदुक्तं च गौरवादयुक्त- मित्यत आह—च भूय इति। भूयस्तृतीयवारमित्यर्थः। च समुच्चये। तेनोभयमप्येकत्र