सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 279, कुल 723 में से
संदर्भ में पढ़ेंछेदकाधिकारः १७७ लिखित्वा मिश्ररचनया तद्वासनां वच्मीत्यर्थः । तथा च पूर्वोक्तमपि लघुभूतमन्त्राऽऽदृतम् । तत्र लीलयैव श्रोतॄणां बोधोत्पत्त्यर्थं मया पृथक्प्रतिवृत्तनीचोच्चवृत्तभङ्ग्या गुरुभूतमपि पूर्वमत्यावश्यकतयोक्तमिति नायुक्तमिति नायुक्तं मदुक्तं मदुक्तमिति । भावः ॥२३॥ तथ प्रतिज्ञातं विवक्षुः प्रथममुपजातिकया नीचोच्चवृत्तोर्ध्वरेखारचनमाह—कक्षा- स्थेति । अथ त्रिभज्यकासमितकर्कटेनेत्यादिना पूर्वोक्तेनाभीष्टस्थाने भगणाङ्कितकक्षावृत्तसंपा- दनानन्तरमित्यर्थः । कक्षास्थमध्यग्रहचिह्नातः कक्षावृत्ते मेषादिस्थानान्मध्यग्रहभोगेन यत्स्थानं तच्चिह्नादित्यर्थः । अन्त्यफलज्याव्यासार्धेन वृत्तं लिखेत् । तत्संज्ञामाह—तदिति । लिखितं वृत्तं नीचोच्चसंज्ञं भवति । तत्रैकामूर्ध्वरेखां कुमध्यतो भूवृ