सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 295, कुल 723 में से
संदर्भ में पढ़ेंछेद्यकाधिकारः १९३ लल्लाचार्य ने इस जगह पर "वृत्तद्वययोगे द्युचरे मध्यैव गतिः स्फुटा" कहा है वस्तुतः दोनों वृत्तों के योगासन्न में परमफल की सत्ता होने से तत्र फलाभाव स्या- नासन्न में ग्रह गति की धन वा ऋण स्थिति होती है । "अतः वृत्तद्वय योगे" लल्लाचार्य का यह कथन समीचीन नहीं है । ।। ३९ ।। इदानीं ग्रहस्य वक्रत्वं छेद्यके यथा शीघ्रं दृश्यते तदर्थमाह— वंशोद्भवाभिः प्रतिमण्डलाद्यं कृत्वा शलाकाभिरिदं यथोक्तम् । प्रचाल्य तुङ्गं खचरं च गत्या वक्रादि सर्वं खलु दर्शयेद्राक् ॥४०॥ वा० भा०—वंशशलाकाभिश्चेद्यकं कृत्वा तत्राऽऽद्यतनस्फुटग्रहस्थानं चिह्नयित्वा द्वितीयदिन उच्चं ग्रहं चोच्चवशान्मेषादि च प्रकल्प्यान्यत्स्फुटग्रहस्थानं चिह्नयेत् । तत्पूर्वचिह्नाद्यदि पृष्ठगतं तदा वक्रा गतिर्ज्ञेया ॥४०॥ मरीचिः—अथ प्रसङ्गाद्वक्राविपरीतशुद्धावित्यत्र ग्रहस्य पूर्वंगमनात्पश्चिमगतेरसंभा- वितत्वाशङ्कां छेद्यकोक्त्योपजातिकया निरस्यति-वंशोद्भवाभिरिति । वंशोद्भवाभिः शलाकाभिः सरलस्निग्धवंशोत्पन्नशलाकाभिः । इदं प्रतिपादितम् । द्राक्प्रतिमण्डलाद्यं शीघ्रप्रतिमण्डलादिकम् । आदिपदात्कक्षावृत्तं तिर्यगूर्ध्वाधररेखासमलव- कलाविकलाविभागाद्यङ्कनादिकं यथोक्तमुक्तरीत्या कृत्वा । प्रत्यहं तुङ्गं ग्रहं शीघ्रोच्चं मन्दस्पष्टग्रहं च । स्वगत्या प्रचाल्याङ्कितं कृत्वेत्यर्थः । वक्रादि । आदिपदान्मार्गगति सर्वगतिम् । सर्वं शीघ्रमन्दाद्यष्टविधगमनमार्गोक्तं गुरुः शिष्याय दर्शयेत् । खल्वितिपादाद- वश्यं तत्र वस्तुतत्त्वनिश्चयो भवतीति सूचितम् । यथा हि—वंशशलाकजं कक्षावृत्तं भित्तौ दत्त्वा तत्र राशिभागाद्यङ्कनेन मन्दस्पष्टग्रहं दत्त्वा शीघ्रोच्चं च दत्त्वा प्रतिवृत्तं तुल्यमेवा- न्त्यफलज्याग्रे मध्यं कृत्वा राशिभागाद्यङ्कितभित्तौ देयम् । तत्राप्युक्तरीत्या ग्रहमुच्चं चाङ्कयित्वा स्पष्टग्रहस्थानं कक्षावृत्ते ज्ञेयम् । एवं द्वितीयदिनेऽपि कक्षावृत्ते शीघ्रोच्चं मन्दस्पष्टग्रहं च दत्त्वोच्चोन्मुखान्त्यफलज्याग्रे मध्यं कृत्वा प्रतिवृत्तं भित्तौ देयम् । तत्र ग्रहोच्चयोर्दानेनोक्तरीत्या कक्षावृत्ते स्पष्टग्रहस्थानं ज्ञेयम् । तत्पूर्वदिनजस्पष्टस्थानादग्र एव भवति । नीचासन्ने तु पृष्ठत इति । वक्रगतिगानं कक्षावृत्ते न वस्तुतो वक्रा गतिः । प्रतिवृत्ते ग्रहस्य सत्त्वात्तत्र विपरीतगमनस्यासंभावितत्वादित्यादि स्पष्टाधिकारव्याख्याने बहूक्तमित्यलं पल्लवितेन ॥४०॥ केदारदत्तः—ग्रह की वक्रत्व का गति ज्ञान— सुपक्व बाँस की लकड़ी को आरा आदि अस्त्र से चीर कर विभक्त न यथा माप की बाँस लकड़ी के खण्डों से अनेक गोल वृत्तों की रचना नियत एक नाप की त्रिज्या से बनाकर उन्हें मन्द प्रतिवृत्त और शीघ्रप्रतिवृत्त आदि वृत्तों से परिचित कर कक्षावृत्तीय बांस वृत्त से अन्त्यफलज्या तुल्य गर्भ केन्द्रान्तर द्वारा उनमें प्रथम दिन सम्बन्धी उच्च और ग्रह के अन्तर का द्वितीय दिन सम्बन्धी उच्च ग्रहान्तर समझ कर दोनों दिनों के १३