सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 296, कुल 723 में से
संदर्भ में पढ़ें१९४ गोलाध्याये ग्रहों का अन्तर समझ कर यदि पूर्व दिन सम्बन्धी ग्रह चिह्न द्वितीय दिन सम्बन्धी ग्रह चिह्न से पृष्ठगत होता है तो तब ग्रह की वक्र गति समझनी चाहिए ॥४०॥ इदानीं केन्द्रसंज्ञां स्फुटकक्षां चाह— वृत्तस्य मध्यं किल केन्द्रमुक्तं केन्द्रं ग्रहोच्चान्तरमुच्यतेऽतः । यतोऽन्तरे तावति तुङ्गदेशान्नीचोच्चवृत्तस्य सदैव केन्द्रम् ॥४१॥ ग्रहस्य कक्षा चलकर्णनिघ्नी स्फुटा भवेद्व्यासद्लेन भक्ता । तद्व्यासखण्डान्तरितः कुमध्यात्स भ्राम्यते हि प्रवहानिलेन ॥४२॥ वा० भा०—श्लोकद्वयमपि स्पष्टम् ॥४१॥४२॥ मरीचिः—अथ ग्रहोच्चान्तरवशतो ग्रहफलोत्पत्तेस्तदन्तरं केन्द्रसंज्ञं कथमुक्तमत उप- जातिकयाऽऽह—वृत्तस्येति । किल यतः केन्द्रसंज्ञमुक्तमतः कारणाद्ग्रहोच्चान्तरं केन्द्रसंज्ञं सूर्यादिभिरुच्यते । ननु वृत्तमध्यभागस्य केन्द्रत्वे ग्रहोच्चान्तरस्य केन्द्रत्वं कुत इत्यत आह—यत इति । यतः कारणात् । उच्चदेशात्तावति ग्रहोच्चान्तररूपेऽन्तरे कक्षावृत्ते मध्यग्रहस्थाने नीचोच्चवृत्तस्य । एवकारात्तदतिरिक्तवृत्तनिरासः । तदा नित्यं केन्द्रं भवति । अतो ग्रहोच्चान्तरं केन्द्र- संबन्धात्केन्द्रसंज्ञमुक्तमित्यर्थः ॥४१॥ ननु ग्रहस्य प्रतिवृत्तस्थत्वात्प्रवहानिलेन भ्रमणे रात्रिदिनयोः सदा महदन्तरितत्वा- पत्तिः । प्रतिवृत्तप्रदेशयोर्भूगोलोभयतो बृहदल्पयोः सत्त्वादिति मन्दाशङ्कामुपजातिकया परिहरति—ग्रहस्येति । ग्रहस्य योजनात्मिका मध्याधिकारोक्ता कक्षा शीघ्रकर्णगुणत्रिज्यया भक्ता स्फुटा योजनात्मिका ग्रहस्य कक्षा भवति । अत्र हेतुमाह—तदिति । भूगर्भात्तद्व्यासखण्डान्त- रितः शीघ्रकर्णमितव्यासाधैनान्तरितः स ग्रहो हि यतः प्रवहानिलेन भ्राम्यतेऽतो युक्तं स्फुटकक्षानयनमुक्तम् । ‘स्फुटकक्षापरिधिमार्गेण ग्रहो भूगोलादभितस्तुल्यान्तरेण भ्रमती- त्यर्थः । तथा च प्रवहवायोर्भचक्रानुकारभ्रमणात्प्रतिवृत्ताकारेण प्रवहवायुकृतग्रहभ्रमणा- भावाच्च न शङ्कावकाश इति भावः । एतेन— कक्षामध्यगतिघ्ना स्फुटगत्याप्ता परिस्फुटा भवति । मध्यमकक्षावृत्ते मध्यमया गच्छति ग्रहो गत्या । उपरिष्टात्तल्लब्ध्या तदधिकगत्या त्वधस्थः स्यात् ॥ इति लल्लोक्तं निरस्तम् । कक्षावृत्तमार्गेण ग्रहभ्रमणात्तत्र पूर्वगत्या गमनासम्भवात्प्रति- वृत्ते मध्यमगत्यैव ग्रहगमननिश्चयात् । स्पष्टगतेस्तुं मध्यमकक्षावृत्ता आभासमात्रत्वात् ॥४२॥ केदारदत्तः—केन्द्र संज्ञा के साथ ग्रह की स्पष्ट कक्षा बताई जा रही है— किसी भी वृत्त का एक नियत केन्द्र बिन्दु होता है उसे वृत्त का केन्द्र कहा जाता है । खगोल में किसी भी वृत्त का एक गर्भ केन्द्र और दो पृष्ठीय केन्द्र होते हैं, जैसे