सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 313, कुल 723 में से
संदर्भ में पढ़ेंज्योत्पत्तिवासना २११ अथात्रोपपत्त्यवगमार्थं ज्याभावनया ज्यासाधनप्रकारमभीष्टत्रिज्यानुरोधेन ज्यासा- धनं च पाटोस्थ्यज्यासाधनोपेक्षां चानुष्टुप्पञ्चकेनाऽऽह--चापयोरिति । अभीष्टयोरंशाद्यात्मकचापार्धयोर्ये भुजज्ये ते मिथः परस्परं कोटिज्यया गुणिते । अय- मर्थः--इष्टांशयोर्भुजज्ये कोटिज्ये च स्थाप्ये । ततः प्रथमा भुजज्या द्वितीयकोटिज्यया गुण्येति । उभयत्र त्रिज्यया भक्ते तयोस्तदागतफलयोर्योगः । ययोश्चापयोरंशाद्यात्मकयोर्भुजज्ये गृहीते तयोरंशाद्यात्मकयोश्चापयोर्योगमितांशाद्यात्मकचापस्य भुजज्या स्यात् । अत्र भुजपदं कोटिज्यावारकं मन्दार्थमिति ध्येयम् । तयोरागतफलयोरन्तरतुल्या मूलभुजज्या संब- न्ध्यंशाद्यात्मकचापयोरन्तरमितांशाद्यात्मकचापस्य जीवा स्यात् । ननूक्तप्रकारेणैकसार्धैक- राशिज्ययोरसिद्धिस्त आह-अन्यज्यासाधने इति । इयं चापयोरित्यादिसाधनानुष्टुभोक्ता ज्याभावना ज्याज्ञानक्षोदरूपविशेषप्रकारात्मिका । सम्यक्-सूक्ष्मा । अन्यज्यासाधने । एकसार्ध- कराशिज्येतरज्यासाधननिमित्तं, उदितोक्ता । नैकसार्धैकराशिज्ययोरपि साधनार्थमुक्तेति न क्षतिरिति । भावः । ननूक्तज्यासाधनं द्विविधं भावनया कथं संगृह्यत इत्यत आह--समा सभावेनेति एका प्रथमा । तयोरैक्यरूपा समासभावना योगभावना । योगत्वात् । अन्या द्वितीया । तयोरन्तरसंमितेति सान्तरभावनाऽन्तरत्वात् । अतो भावनाद्वैविध्याच्चकारादुक्त- ज्यानयनयोस्तथा भावनात्वम् । तथा च भावनया द्विविधयानयनं युक्तमेव संगृहीतमिति भावः । अनेनार्धेनैतदुक्तज्यानयनयोः स्वोक्तबीजान्तर्गतवर्गप्रकृतिनिरूपणान्तर्गतकनिष्ठ- ज्येष्ठपदसमासान्तरभावनाभ्यां-- वज्राभ्यासौ ज्येष्ठलध्वोस्तदैक्यं ह्रस्वं लघ्वीराहितिश्च प्रकृत्या । क्षुण्णा ज्येष्ठाभ्यासयुग्ज्येष्ठमूलं तत्राभ्यासः क्षेपयोः क्षेपकः स्यात् ॥ ह्रस्वं वज्राभ्यासयोरन्तरं वा लब्ध्योर्घातो यः प्रकृत्या विनिघ्नः । घातो यश्च ज्येष्ठयोस्तद्वियोगो ज्येष्ठं क्षेपोऽत्रापि च क्षेपघातः ॥ इति । निरूपिताभ्यां क्रमेणोपपत्तिरस्तीत्याचार्यैः सूचितम् । तथा हि । भुजज्यावर्गोनात्रिज्या- वर्गान्निर्मूलस्य कोटिज्यात्वात्तत्र वर्गप्रकृतिविषयत्वं कुत इति चेच्छृणु । भुजज्यावर्गोनत्वेनोद्दे- शाद्भुजज्यावर्गस्यर्णत्वं सिद्धम् । तेन स्वतो वर्गस्यार्णत्वासिद्ध्या विना ऋणाङ्कगुणनभजने तस्यार्णत्वासंभवाच्चूर्ण तस्य गुणकोऽस्तीति सिद्धम् । स तु केवलभुजवर्गोद्देशादेकसंख्याक एव । एवं भुजवर्गोनत्वेन त्रिज्यावर्गोद्देशात्त्रिज्यावर्गस्य क्षेपकत्वसिद्धिः । तथा च भुजज्याया वर्ग ऋणैकगुणितस्त्रिज्यावर्गयुतस्तन्मूलं कोटिज्या ज्येष्ठपदरूपाऽर्थाद्भुजज्या कनिष्ठ- पदरूपा । इष्टं ह्रस्वं तस्य वर्गः प्रकृत्या क्षुण्णो युक्तो वर्जितो वा स येन । मूलं दद्यात्क्षेपकं तं धनर्णं मूलं तच्च ज्येष्ठमूलं वदन्ति ॥ इति वर्गप्रकृतिस्वरूपप्रतिपादनात् । प्रकृतिरत्र वर्गस्य गुण इति ध्येयम् । अत एव कोटिज्यानयने वर्गप्रकृतिविषयत्वसूचनार्थमेवाऽऽचार्यैर्वर्गप्रकृतिसमाप्त्यवसरे--