भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 315, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 315

द्विज्ये० आक १ द्विज्ये० आज्ये १ द्विज्येव० आक्षे १ । आज्ये० द्विक १ द्विज्ये० आज्ये १ आज्येव० द्विक्षे १ । अत्रोर्ध्वपङ्क्तौ द्वितीयज्येष्ठवर्गगुणित आद्यक्षेपोऽस्ति । तत्र द्वितीयज्येष्ठवर्गोऽन्यथा साध्यते । द्वितीयकनिष्ठवर्गः प्रकृतिगुणो द्वितीयक्षेपयुतो जातो द्वितीयज्येष्ठवर्गः । द्विकव० प्र १ द्विक्षे १ । अनेन गुणित आद्यक्षेपो जातः खण्डद्वयात्मकः क्षेपः । द्विकव० प्र० आक्षे १ द्विक्षे आक्षे १ । अत्र प्रथमखण्ड आद्यक्षेपोऽन्यथा साध्यते । ज्येष्ठवर्गे हि खण्डद्वयमस्ति । प्रकृतिगुणः कनिष्ठवर्ग एकम् । क्षेपोऽपरम् । तत्र ज्येष्ठवर्गात्प्रकृतिगुणे कनिष्ठवर्गे शोधिते क्षेप एवावशिष्यते । अत आद्यकनिष्ठवर्गः प्रकृतिगुण आद्य ज्येष्ठवर्गादपनीतो जात आद्यः क्षेपः । आकव० प्र १ आज्येव १ । अयं प्रकृतिगुणेन द्वितीयकनिष्ठवर्गेण गुणितः सन्प्र- कृतक्षेपाद्यखण्डं भवेदिति जातमाद्यं खण्डं खण्डद्वयात्मकम् । द्विकव० प्र० आकव० प्र १ द्विकव० प्र० आज्येव १ । अत्र प्रथमखण्डे प्रकृत्या वारद्वयं गुणनाज्जातं प्रकृतिवर्गेण गुणनम् । तथा सति जातं प्रथमखण्डम् । द्विकव० आकव० प्रव १ । एवमूर्ध्वपङ्क्तौ जातः खण्डत्रयात्मकः क्षेपः । द्विकव० आकव० प्रव १ द्विकव० प्र० आज्येव १ द्विक्षे० आक्षे १ । अनयैव युक्त्या द्वितीयपङ्क्तावपि जातः खण्डत्रयात्मकः क्षेपः । द्विकव० आकव० प्रव १ आकव० प्र० द्विज्येव १ द्विक्षे० आक्षे १ । एवं पङ्क्तिद्वये जाताः कनिष्ठज्येष्ठपदक्षेपाः । द्विज्ये० आक १ द्विज्ये० आज्ये १ आज्ये० द्विक १ द्विज्ये० आज्ये १ द्विकव० आकव० प्रव १ द्विकव० प्र० आज्येव १ द्विक्षे० आक्षे १ द्विकव० आकव० प्रव १ आकव० प्र० द्विज्येव १ द्विक्षे० आक्षे १ अत्र ज्येष्ठलध्वोरेकोऽभ्यास ऊर्ध्वपङ्क्तौ कनिष्ठम् । अपरोऽभ्यासो द्वितीयपङ्क्तौ कनिष्ठम् । ज्येष्ठं तूभयत्र ज्येष्ठाभ्यासरूपमेकमेव अत्र प्रत्येकं वज्राभ्यासस्य कनिष्ठकत्व- कल्पने क्षेपो महान् स्यादित्याचार्यैरन्यथा यतितम् । तद्यथा—वज्राभ्यासयोगः कनिष्ठं कल्पितम् । द्विज्ये० आक १ आज्ये० द्विक १ । अस्य वर्गः । द्विज्येव० आकव १ द्विज्ये० आक० आज्ये० द्विक २ आज्येव० द्विकव १ । प्रकृतिगुणः । द्विज्येव०आकव० प्र १ द्विज्ये०आक० आज्ये द्विक०प्र २ आज्येव० द्विकव० प्र १ । अयं केन क्षेपेण युतः सन्मूलदः स्यादिति विचार्यते । तत्रास्य खण्डद्वयम् ।