सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 323, कुल 723 में से
संदर्भ में पढ़ेंज्योत्पत्तिवासना २२१ गात्तद्गर्भजनत्यागः स्वत्र्यंश २९७९१ युक्तः ११११६४ । अयं त्र्यंशे १ योजितो जातः १५९४३२३ १५९४३२३ ३ ६५०६०५ । अस्मात्पुनर्धनादिकरणेनासकृत्साध्यं गणितक्रियादक्षगणके यत्रापवर्तः संभवति १५९४३२३ तत्र भाज्यहरावपवर्तनीयावेवं परिवर्तन्तरे गणितक्रियासमाप्त्याऽऽसन्नभाज्यहरयोरपवर्तने सिद्धमिदमर्धं १ । एतस्य दृढत्वज्ञानार्थमस्य घनः १ स्वत्र्यंश १ युक्तः ४ । अपवर्तनेन २ ८ २४ २४ षष्ठांशः सिद्धः । अनेन त्र्यंशः सिद्धः १ । अनेन त्र्यंशः १ समच्छेदतया योजितोऽपवर्तनेन ६ ३ जातमर्धं स्थिरमितीति सकलभूपालमौलिमणिमयूखमालामिलच्चरणनखनीहारकिरणकर- निकरनिर्वासिताखिललोकस्वान्तध्वान्तसंतानसंतापसंततिचतुरुदधितीरचञ्चत्तरङ्गसमालिङ्गि- तकीर्तिलतावितनो गणितवेधाद्युपायसमासादितालौकिकगणितागमाता(त्ता)व(?)च(च्च)क्षुः साक्षात्कृतसान्तरखण्डब्रह्माण्डमण्डलपारसीकसार्वभौमो,मिरजोलकबेगः स्वनिर्मिते जीवनामनि ग्रन्थे निपुणं निरूपयांचक्रे । एवं ज्यासाधनप्रकारेण चतुर्विंशतिज्यासाधन उक्तत्रिज्यानुरोधेन प्रथमजीवा सावयवेयं २२४ । ५१।१० । १५ । कोटिज्यात्रयोविंशी सावयवा ३४३० । ३८ । १७ । १२ । पूर्वरीत्या कोटिज्यया गणितागतप्रथमज्यामितगुणा २२४ । ५१ । १० । १५ त्रिज्या ३४३८ मितहरौ किंचिदूनसपादद्वयेनानेन २ । १४ । ५४ । ४२ । ९ अपवर्तितौ गुणस्थाने शतं १०० हरस्थाने नन्दाश्वितिथयः १५२९ । भुजज्यायाश्च सावय- वत्रयोविंशज्या ३४३० । ३८ । १७ । १२ ऊनितत्रिज्यामितगुण ७ । ११ । ४२ । ४८ त्रिज्या ३४३८ मितहरौ गुणेनापवर्तितौ गुणस्थाने रूपं हरस्थाने सप्तषष्ट्यधिकचतुःशत- ४६७मित्युपपन्नं कोटिजीवाशताभ्यस्तेत्यादिसार्धानुष्टुभोक्तम् । अनेनाऽऽनयनेन प्रथमज्या- पादोनचतुष्टयांशानामुक्तत्रिज्यानुरोधेनैव सप्तांशोनास्तत्त्वाश्विनस्तदितरत्रिज्यायास्तूक्त- प्रकारेणैव प्रथमज्या तदितरा । शेषं पूर्वं प्रतिपादितमेव । अथ प्रसङ्गाज्ज्यान्तरभावनया दोर्ज्याकृतिर्व्यासदलार्धभक्तेत्यादिनोक्तभुजकोटि- भागान्तरज्यासाधनस्योपपत्तिः । भुजकोटिज्ये चापयोर्भुजज्ये । कोटिभुजज्ये तयोः क्रमेण कोटिज्ये । तथा च चापयोरिष्टयोरित्यादिना भुजकोटिज्ययोर्वर्गौ त्रिज्याभक्ताविति सिद्ध- मनयोरन्तरं भुजकोटिभागान्तरांशानां ज्या । तत्र कोटिज्यावर्गस्य भुजज्यावर्गोनायास्त्रिज्या- कृतेस्तुल्यत्वात्तदन्तरे भुजद्विगुणप(भ)वर्गत्रिज्यावर्गयोरन्तरं त्रिज्याभक्तमिति संजातमत्रापि त्रिज्याभक्तयोरन्तरं कृतम् । तत्र भुजवर्गो द्विगुणे त्रिज्याभक्ते ह्यपवर्तनेन दोर्ज्याकृतिर्व्या- सदलार्धभक्ता सिद्धा त्रिज्यावर्गे त्रिज्याभक्ते त्रिज्या जाता । तयोरन्तरे लब्धस्त्रिमौर्व्योर्वि- वरेणेत्युपपन्नमित्यलं प्रसङ्गागतविचारेण । नन्वेवं गजगुणवेदराममितत्रिज्यावशादग्र पूर्वज्यासाधने गुणहरयोरुत्पादितत्वादन्यत्रिज्या- नुरुद्धभुजकोटिज्याभ्यामुक्तप्रकारेण स्वत्रिज्यानुरुद्धतत्पूर्वाग्रिमज्ययोः सिद्धिर्भवतीति कथम-