सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 330, कुल 723 में से
संदर्भ में पढ़ें२२८ गोलाध्याये शास्त्र में दक्ष एवं गोलशास्त्र में अत्यन्त बुद्धि सम्पन्न गणक जो ग्रहगोलीय और भगो- लीय वृत्तों के सम्बन्धों से सुपरिचित भी हो, ऐसे गणक से भौतिक गोल की रचना करनी चाहिए ॥१॥ अथ गोलबन्धमाह— कृत्वाऽदौ ध्रुवयष्टिमिष्टतरुजामृज्वीं सुवृत्तां ततो यष्टीमध्यगतां विधाय शिथिलां पृथ्वीमपृथ्वीं बहिः । बध्नीयाच्छशिसौम्यशुक्रतपनारेज्याकिभानां दृढान् गोलांस्तत्परितः श्लथौ च नलिकासंस्थौ खदृग्गोलकौ ॥२॥ वा० भा०—आदौ सारदारुमयीं कृत्वा तदर्धस्थाने तत्र प्रोतां पृथ्वीं सूक्ष्मां शिथिलां च विधाय तस्या बहिश्चन्द्रादीनां गोलान्यष्टया सह दृढान्बध्नीयात् । तेषां बहिर्नलिकासंस्थौ खदृग्गोलाविति साधारण्येनोक्तम् ॥२॥ मरीचिः—अथगोलबन्धक्रमितिकर्तव्यताकथनद्वारा तदुद्देशं शार्दूलविक्रीडितेनाऽऽह— कृत्वेति। आदौ प्रथममिष्टतरुजामभीष्टसारवृक्षकाष्ठसंभूतामन्यथा चिरकालावस्थायित्वानुप- पत्तेः । ध्रुवयष्टिं ध्रुवौ दक्षिणोत्तरदिक्स्थौ गोलवृत्तार्धान्तरितौ तयोरन्तरसूत्रं याम्योत्तर- सूत्रं बुद्धिकृतं सूक्ष्मं तदनुकल्पा यष्टिर्ध्रुवयष्टिस्तामृज्वीं सरलाग्रभागाम् । अन्यथा वृत्तार्धा- न्तरत्वं तदग्ररूपध्रुवानुकल्पयोर्न स्यात् । सुवृत्तां निरस्ताम् । अन्यथाऽनवरतभ्रमणानुपपत्तेः ।