सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 329, कुल 723 में से
संदर्भ में पढ़ेंअथ गोलबन्धाधिकारः इदानीं गोलबन्धाधिकारमाह— सुसरलवंशशलाकावलयैः श्लक्ष्णैःसचक्रभागाङ्कैः । रचयेद्गोलं गोले शिल्पे चानल्पनैपुणो गणकः ॥१॥ वा० भा०—स्पष्टम् ॥१॥ मरीचिः—अथोत्तमश्लोकस्य गोलान्तर्गतत्वावगमार्थं गोलस्वरूपप्रतिपादकोऽधिकारः पूर्वं स्वतन्त्रतया प्रतिज्ञातो ग्रहगणितजातवासनानिर्णायको दृष्टान्तरूपगोलबन्ध आरब्धो व्याख्यायते । तत्र ग्रहगणितसंस्थातिरूपकदृष्टान्तगोलः कथं सिद्धो भवतीत्यतो गीत्याऽऽह— सुसरलेति । सुसरला अवक्राः । गोलाकारसिद्ध्यर्थमेव ये वंशास्तेषामूर्ध्वाधरच्छेदेन याः शलाका निर्मिता अनतिस्थूलपृष्ठाः समास्तासां यानि वलयानि कृतानि । वंशानां वृत्तासंभवात्तच्छ- लाकात्तादोक्तमुक्तम् । एतदुपलक्षणाद्यथाभाग्यं धात्वादिभिर्निर्मितानि तैरित्यर्थः । श्लक्ष्णैः स्निग्धैः । अन्यथा तद्बन्धनादावङ्गुलिषु तदंशाणुकादिलघुशलाकाभेदनसंभावनया दुःख- हेतुत्वादुपेक्षणीयत्वापत्तेः । गणको ग्रहगणितवासनानिरूपणप्रदर्शकः । गोलं बुद्धिकृता- काशविभागगोलकल्पितपरिधिरूपानकवृत्तानुकल्पवंशजनितवृत्तानां बन्धनं गोलाकारेण गोलबन्धस्तमित्यर्थः । रचयेच्छिष्यबोधार्थं वक्ष्यमाणप्रकारेण कुर्यादित्यर्थः । ननु दृष्टान्त- रूपैतद्गोले ग्रहगणितपदार्थस्वरूपावगमेऽपि तत्संख्याज्ञानं न स्यादित्यतो वृत्तविशेषणमाह— सचक्रभागाङ्कैरिति । चक्रं द्वादश राशयस्तेषां भागाः प्रदेशास्तेषामङ्काश्चिह्नानि तैः सहितै- र्वृत्तैरित्यर्थः । तथा च वृत्ते द्वादश राशिविभागाः समाः कार्यास्तत्रैकैकस्मिन् विभागे त्रिंशद्भागा अङ्क्यास्तत एकैकस्मिन्भागे षष्टिकला अङ्क्यास्तत एकैककलाप्रदेशे षष्टि- विकला अङ्क्याः । एवं वृत्तानि सर्वाण्यङ्कितानि । ततो ग्रहगणितपदार्थसंख्यावगमोऽप्येतद्- गोले सुशकय इति भावः । गोलबन्धोऽभ्रान्ततया कार्योऽन्यथाऽऽकाशस्थितिविरुद्धतया सिद्धाद्- गोलबन्धाच्छिष्याणामयथार्थज्ञानं स्यादिति गणकविशेषणेनाऽऽह—गोल इति । आकाश- स्थितौ शिल्पकर्तव्यतायाम् । चः समुच्चये । अनल्पमत्यन्तं नैपुणं निपुणता तदभिज्ञत्वं यस्यासावित्यर्थः । तादृशनिर्मितगोलस्य तत्स्थितिविरुद्धत्वमसंभवीति भावः । विना शिल्पा- भिज्ञतां समभागाङ्कनाद्यशक्यमिति तदावश्यकत्वमिति ध्येयम् ॥१॥ केदारदत्तः—गोलाकृतिक बाँस या अन्य उपकरणों से गोल रचना की युक्ति कही जा रही है। सुन्दर सरल चिक्कन बाँस के छेदित लकड़ियों से जिनमें १२ राशियों, उन के कला विकलाओं आदि के स्थान अङ्कित किये गये हों ऐसी लकड़ी या अन्य उपकरणों से, शिल्प-