सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 340, कुल 723 में से
संदर्भ में पढ़ें२३८ गोलाध्याये केदारदत्तः—क्रान्ति सम्पात चिह्न से ६ राशि की दूरी पर नाडी वृत्त सम्पात समझ कर नाडी क्रान्ति वृत्त सम्पात से प्राग्विभाग में ३ राशि = ९० अंश की दूरी पर पूर्वभाग में २४ अंश उत्तर की तरफ तथा परभाग में २४° दक्षिण की तरफ के अन्तर से एक गोलज धरातल से क्रान्तिवृत्त की स्थापना करना चाहिए ॥१२॥ इदानीं विमण्डलमाह— नाडिकामण्डले क्रान्तिवृत्तं यथा क्रान्तिवृत्ते तथा क्षेपवृत्तं न्यसेत् । क्षेपवृत्तं तु राश्यङ्कितं तत्र च क्षेपपातेषु चिह्नानि कृत्वोक्तवत् ॥१३॥ क्रान्तिवृत्तस्य विक्षेपवृत्तस्य च क्षेपपाते सषड्भे च कृत्वा युतिम् । क्षेपपाताग्रतः पृष्ठतश्च त्रिभे क्षेपभागैः स्फुटैः सौम्ययाम्ये न्यसेत् ॥१४॥ शीघ्रकर्णेन भक्तास्त्रिभज्यागुणाः । स्युः परक्षेपभागा ग्रहाणां स्फुटाः । क्षेपवृत्तानि षष्णां विदध्या- त्पृथक् स्वस्ववृत्ते भ्रमन्तीन्दुपूर्वा ग्रहाः ॥१५॥ वा० भा०—अस्य श्लोकस्य समग्रस्य व्याख्यानम् । यथा क्रान्तिवृत्तं पृथक्कृत- मेवं विमण्डलमपि राश्यङ्क पृथक् कृत्वा तत्र मेषादेर्व्यस्तं स्फुटं क्षेपपातं दत्त्वाऽग्रे चिह्नं कार्यम् । अथ क्रान्तिवृत्तस्य विमण्डलस्य च क्षेपपातचिह्नयोः संपातं कृत्वा तस्मात्षड्भान्तरेऽन्यं च संपातं कृत्वा क्षेपपाताग्रतस्त्रिभेऽन्तरे क्रान्तिवृत्तादुत्तरतः स्फुटैः क्षेपभागैः पृष्ठतश्च त्रिभेऽन्तरे तैरेव भागैर्दक्षिणतः स्थिरं कृत्वा विमण्डलं निवेशनीयम् । अथ पठिता ये विक्षेपभागास्ते त्रिज्यागुणाः शीघ्रकर्णेन भक्ताः स्फुटा ज्ञेयाः । अत्रानुपातः । यदि कर्णाग्रे एतावन्तस्तर्हि त्रिज्याग्रे कियन्त इति । यतो भगोले त्रिज्यैव व्यासार्धम् । एवं चन्द्रादीनां षड्विमण्डलानि कार्याणि । स्वस्वविमण्डले ग्रहा भ्रमन्ति ॥१३॥१४॥१५॥ मरीचिः—अथ क्रमप्राप्तं विमण्डलनिबन्धनं स्रग्विणीभ्यामाह—नाडिकामण्डल इति । यथा नाडिकावृत्ते क्रान्तिवृत्तं निवेशितमुत्तरगोले उत्तरतो दक्षिणगोले दक्षिणतो नाडिकामण्डलादित्यर्थः । तथा च तद्वत्क्षेपवृत्तं विक्षेपवृत्तं क्रान्तिवृत्ते न्यसेत् । क्रान्तिवृत्त- प्रदेशाभ्यां विक्षेपकृतान्तरोत्तरदक्षिणगोलप्रदेशौ वृत्तार्धरूपावुत्तरतो दक्षिणतश्च क्रमेण यथा भवतस्तथा शरवृत्तं निवेदनीयम् । ननूक्तप्रकारेण शरोऽपि ग्रहाणां क्रान्तिवदेव सिद्धः । नाडिकावृत्ताच्चतुर्विंशत्यंशैः क्रान्तिवृत्तोत्तरदक्षिणभागयोरवस्थानात् । चतुर्विंश- त्यंशैः क्रान्तिवृत्ताच्छरवृत्तोत्तरदक्षिणभागयोरवस्थानस्योक्तत्वात् । न चेष्टापत्तिः । ग्रह- शराणां परगत्वेऽपि चतुर्विंशानुपलम्भादित्यतः साधारणोक्तं विशदयति—क्षेपवृत्तमिति ।