सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 353, कुल 723 में से
संदर्भ में पढ़ेंणानां चतुर्भिनिरग्रभजनाद्गुणपातेन भगणा एवोत्पन्ना राश्यादिस्थाने शून्यमतोऽस्मन्मते ततु- पपन्नम् । अयनांशयोजनेऽयनांशतुल्य एव ग्रहः स्यान्न मेषादिति वाच्यम् । तत्रायनांशभग- णपूरितरयनांशाभावात् । तथा चायनसंस्कृतग्रहाणामेव स्पष्टत्वे सिद्धे सकलसंहिताजायका- दव्यवहारस्तेभ्य एव युक्तः । न तदसंस्कृतेभ्यः । एवं च चैत्रादयो मासास्तत्संजातं पात- मित्याद्युक्त्या चायनसंस्कृतव्यवहारं निरस्य निर्मूलः प्रवर्तितः तन्मूलिकाः सारण्योऽपि तथैवेत्येकः पूर्वपक्षः । सिद्धान्तस्तु—संपातादिसप्तविंशतिविभागात्मकनक्षत्राणामश्विन्या- दिभिः संबन्धाभावात्कथमश्विन्यादिसंज्ञा समुचिता रेवतीतारास्थानात्सप्तविंशतिप्रदेशा- [ना]मुक्तस्वरूपाश्विन्यादिनक्षत्रैः शरसंबन्धेन संबन्धादश्विन्यादिक्रमनक्षत्रसंज्ञा समुचिता । अन्यथा तेषां यत्किंचित्संज्ञापत्तेः । मेषादिश्चप्रथमानवर्क्षचरणारूचक्रस्थिता राशय इत्युक्त्या मेषादिराशीनां रेवतीतारास्थानभूताश्विन्यादित एव प्रसिद्धिः । एषां केवलभगोलाङ्गीकारे नक्षत्रगमनेन रेवतीतारास्थानानियमादननुगमादनुगमार्थं भगोलातिरिक्तं क्रान्तिवृत्तं कल्प्यते । केवलभगोलाङ्गीकारस्य नक्षत्रगमनाश्रवणेनायुक्तत्वाच्च । न च भानां चक्रमिति सूर्यसिद्धान्तादेर्नक्षत्रगमनं प्रसिद्धमिति वाच्यम् । तत्पश्चाच्चलितचक्रमपचारोऽयमित्यपि । पश्चिमांशक्रमप्राप्ते प्राक्चक्रं चलितं हि तत् । प्राक्चक्रं चलितं चेति नारदैवोपचर्यते । प्रागंशचक्रमप्राप्ते प्राक्चक्रं चलितं भवेदिति । ब्रह्मसिद्धान्तवचनेनैनाचक्रमित्यस्य क्रान्ति- वृत्तार्थत्वात् । सर्वनक्षत्रगमनापेक्षया एकचक्रगमनकल्पनस्य लघुत्वाच्च । न च प्राक्चलनं चक्रस्यैवेति मनुते तु यो । चलांशसंस्कृत