भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 355, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 355

पचये ग्रहाणां स्वशक्त्या पश्चिमगमनस्य पर्यवसानात् । नहि गमनं विना बीजफलमुत्पद्यते । न च तत्तत्काले ग्रहस्य न्यूनाधिका पूर्वगतिर्भवतीति वाच्यम् । मध्यममानेन गतिवैलक्षण्य- संभवात् । न च स्फुटगताविति वाच्यम् । बीजोत्पन्नगतिफलस्य च्छेद्यकेऽनुत्पत्तेरिति चेन्न । बीजस्याऽऽर्षानुकूल्यायुक्त्यभावेन चानङ्गीकारात् । तदङ्गीकारे पौरुषमतानुप्रवेशाच्च । न च धनायनांशा एव यथोत्तरमित्यधिकगतिकल्पनेनायनांशयोजनमिति वाच्यम् । आर्ष- विरोधात् । पौरुषमतानुप्रवेशाच्च । अयनांशभगणयुक्तग्रहभगणानां ग्रहभगणत्वेन लाघवोक्तौ नक्षत्रभगणोक्तौ चायनांशपदार्थापलापप्रसंगाच्च । तस्मादयनांशोपपत्त्यर्थं क्रान्तिवृत्तचलनं प्रागुक्तं युक्ततरमिति । एतेनाष्टादशशतशेबेऽब्देभा२७वनिघ्ने विभाजिते विषमे । भुक्ते युग्मे गम्ये खखगजचन्द्रै१८००श्चलांशकलाः स्वर्णम् । छायागणितागतयोर्भान्वोर्विवरे चलांशकास्ते वा । छायाकार्कद्गणिताक्री हीनः पूर्वेऽन्यथा पश्चात् । खचराश्चलन्ति तस्मात्पूर्वे युक्ताश्च पश्चिमे हीनाः । तस्मादपच्छायाचरदलनाड्यादिकं साध्यमिति वृद्धवसिष्ठ- सिद्धान्ते । खेचराश्चलन्तीत्यनेनायनांशानां ग्रहगतित्वप्रतिपादनमित्युक्तं निरस्तम् । तत्र पूर्वमयनांशानां ग्रहगतित्वाभावप्रतिपादनं विना तद्ग्रहगमनमिति सिद्धान्तस्याप्रसक्तोक्ति- त्वापत्त्या तस्मादयनांशभागेभ्यो ग्रहा अग्रे चलन्ति । पूर्वानीतग्रहराश्यादिभोगस्तत्स्थाना- त्क्रान्तिवृत्ते इत्ययदि(र्याद)त एवाग्रे पूर्वे युक्ता इत्याद्युक्तं संगच्छते । अन्यथा तस्मादप- मच्छायाचरदलेत्यादिभागस्य व्यर्थत्वापत्तेः । स्पष्टाधिकारे तदानयनं च क्रान्तिप्रसङ्गा- दन्यथा तत्र विनाऽयनांशसंस्कृतप्र(ग्र)हात्क्रान्तिसाधनापत्तेः । तदुत्क्रान्तिसाधनस्थलेऽयनांश- संस्कारानुक्तेः । निरुपाधितत्संस्कारेऽभिमते मध्यमाधिकार एव तदुक्त्यापत्तेरिति दिक् । अपि च । चलांशसंस्कृताकेंदोस्तदसंस्कृतयोस्तु वा । विभिन्नैकायनगयोर्युतौ भार्धे तु मण्डले । क्रान्त्योस्तौल्ये क्रमात्पातो वैधृतश्च सुदारुणः । इति शाकल्योक्त्याऽऽवश्यकाय- नांशसंस्कारस्थलेऽपि निरयनपक्षो विकल्पेनोक्तः । अत एव सूर्यसिद्धान्ते । एकायनगतौ स्यातां सूर्याचन्द्रमसौ यदा । तद्युतौ मण्डले क्रान्त्योस्तुल्यत्वे वैधृताभिधः । विपरीतायनगतौ चन्द्राकौ क्रान्तिलिप्तिकाः । समस्तदा व्यतीपातो भगणार्धे तयोर्युताविति । तदसंस्कार- पूर्वकं प्रथममुक्त्वा—भास्करेन्द्रोर्भचक्रान्तश्चक्रार्धाविधिसंस्थयोः । दृक्तुल्यसाधितांशादि- युक्तयोः स्वापक्रमाविति तत्संस्कारेणोक्तमग्रे इति न क्षेपकम् । अतोऽन्य निरयनसिद्धिः सुतरामिति । न चैवं लग्नानयनेऽयनांशव्यस्तसंस्कारः कथमार्षमते(गमे)नोक्त इति वाच्यम् । चरसंस्कृतलग्नज्येति ब्रह्मसिन्तोक्त्या—तत्संस्कृताद्वघ्ना(द्विधा)क्रान्तिर्लग्नमप्युन्नतिः स्फुटा । हरिंजं कालभागांश्च लग्नाद्यत्तत्तु साधयेदिति सोमसिद्धान्ते तत्संस्कृताल्लग्नादित्यर्थतात्पर्या- ल्लग्ने ऽयनांशव्यस्तसंस्कारस्य व्यजि(ञ्जि)तत्त्वात् । अन्यथाऽयनांशसंस्काराभिमतलग्नेऽय- नांशसंस्कारोक्तिरसङ्गता । गोलयुक्तिविरोधात् । एवं चलसंस्कृतसूर्योने च्छायार्के चाधिके क्रमात् । प्राक्पश्चान्मध्यरेखातो देशः स्वीयस्तदन्तरमिति ब्रह्मवचनेन निरयनसूर्यस्यैव सूर्यत्वं प्रतीयते । अन्यथा सूर्यस्य तत्संस्कृतत्वसिद्ध्या चलसंस्कृतेत्यस्यानुक्तत्वापत्तेः । सूर्यसिद्धान्तेऽपि प्राक्चक्रं चलितं हीनच्छायाकृतिकरणागते इत्यत्र निरयन एवोक्तः ।