सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 356, कुल 723 में से
संदर्भ में पढ़ें२५४ गोलाध्याये अत एव तन्मान्दमसकृद्रामं फलं मध्यो दिवाकर इत्यात्रायनांशव्यस्तसंस्कारार्थः सिद्धः । नहि मध्यमाधिकारे तदुक्तं येन सायनत्वमनिवार्यं तन्मान्देत्याद्ययनांशाभावविषयं वचनमित्यन्ये । एतेनैव लग्नेऽयनांशव्यस्तसंस्कारः सिद्धः । किंच सूर्यसिद्धान्ते लग्नानयनेऽयनांशसंस्कारानुक्तेर्निरयनादेवाकालिकलग्नसाधनमतो ल[ग्ने] व्यस्तायनांशसंस्कारो नोक्तः । यद्यपि सायनार्काद्यनांशोनलग्नकेवलार्कलग्नयोर्न साम्यं तथाऽपि स्वल्पान्तरालाघव- वाच्चाङ्गीकारः स्वतन्त्रेच्छस्य नियोक्तुमशक्यत्वादिति । एतेन भास्कराचार्यैरेव लग्नेऽयनांशा हीनाः कृता न पूर्वैरित्यपि परास्तम् । तत्कालसाधनत्वेरुदयोऽग्रिमांशैर्गुण्यः खरामतद्गत- मिष्टघटीपलेभ्यः । संशोध्य चाग्रिमतन्यूनः (नूः) खगुणप्रशेषाल्लग्नं त्वशुद्धहत