सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 357, कुल 723 में से
संदर्भ में पढ़ेंसमुचितत्वेनायनांशसद्भावेऽपि तत्संज्ञोपचारात् । संक्रान्तिषु पुण्यातिशयपुण्यकालकथनलाघ- वार्थं तत्तत्संज्ञायां मुन्युक्तेश्च । अन्यथा यौगिकत्वेन तत्संज्ञासिद्धौ वचनवैयर्थ्यापत्तेः । किंचद्ब्रह्मसिद्धान्ते पातसाधनेऽस्य पक्षान्तरेणायनांशसंस्कृताकंचन्द्राभ्यामुक्तेः क्रान्त्यभाव सहचरितविषुवत्त्वं सहजतः परमक्रान्तिसहचरितायनांशत्वं च सिद्धम् । अत एव स्यातदर्थ- क्रियविषुवे चलसंभवे ? इति ब्रह्मसिद्धान्तोक्त्या मेषतुलासंक्रान्तौ विषुवत्वमन्यथा विषुवस्य तद्रूपत्वेन चलसंस्कृतीत्यस्य वैयर्थ्यापत्तेरिति । नन्वेवं चलसंस्कृततिग्मांशोः संक्रमो यः स संक्रमः । नान्योन्यत्र च तत्क्षेत्रे नैति तत्क्रान्तिकक्षयेति वचनात्तन्निरासपूर्वकं संपातादि- द्वादशमेषादिराशिसंक्रान्तयः संक्रान्तिपुण्यकालोक्त्यनन्तरं कथं ब्रह्मसिद्धान्त उक्ताः । तेषां भवन्मते मेषादित्वाभावात् । नहि राशिप्रारम्भप्रवेशातिरिक्ता संक्रान्तिः, सर्वदा तत्त्वाप- त्तेरिति चेन्न । यथा मन्दोच्चशीघ्रोच्चपातग्रहाणामन्यराशिस्थितत्वेऽपि तदुत्पन्नमन्दफल- शीघ्रफलगतिरुधनर्णतादिज्ञानाय केन्द्रादौ मेषतुलाकर्कमकरादिराशिसंज्ञा सूर्यसिद्धान्ता- द्युक्ता । तथा संपाताद्दिादशविभागानां क्रान्तिदिग्दिज्ञानाय मेषादिराशिसंज्ञायां बाधका- भावात् । ग्रहमैत्र्या दवद्भावाम्मेषाद्या हि प्रकीर्तिताः । वस्तुवृत्तेन मेषाद्या ग्रहमैत्र्यादिकं नहोति ब्रह्मसिद्धान्तोक्तेश्च । अत एव महापूर्वपक्षवचनानि संगच्छन्ते । न चेवं तद्राशि- संक्रान्त्यङ्गीकारः । कथमन्यथा केन्द्रादिसंबंधेनानेकसंक्रान्त्यङ्गीकारापत्तेरिति वाच्यम् । संस्कृतायनभागार्कसंक्रान्तिस्त्वयनं किल । स्नानदानादिषु श्रेष्ठं मध्यमस्थानसंक्रमः । संक्रान्तेः पुरतो भानुर्भुक्त्या यावद्भिभरंशकैः । रवेरयनसंक्रान्तिः प्राग्वात्तद्राशिसंक्रमात् । अर्कबिम्ब- भरान्नित्यं भचक्रं चलतेऽयनात् । अतः स्यादेतदयनमुच्चनीचोच्चवहर्मनेति सोमनारदकश्य- पवसिष्ठवचनैस्तत्संक्रान्तेरयनसंक्रान्तित्वेनाङ्गीकारात् । न केवलसंक्रान्तित्त्वेन । अत एव सूर्यो मेषायने प्रोद्यन्संचरन्नुद्गुत्तरम् । पूरयेत्प्राग्ग्रह्मध्यं देवानामुत्तमैस्त्रिभिः । याम्याय- नाद्यैस्त्रिगृहैरह्रःपश्चार्धमेव सः । तथा तुलांद्यैर्दैत्यानामपि सौम्यायनादिभिः । सुरासुराणा- मन्योन्यमहोरात्रं विपर्ययादिति ब्रह्मसिद्धान्तोक्तं युक्तम् । यावद्भिभैरंशैरयनच्युतिः स्यात्त- द्भोग्यकालेन दिवाकरस्य । च्युतिर्भवेद्विष्णुपदादिकानां रहस्यमेतन्मुनिभिः प्रदिष्टमिति श्रीपतिभटोक्तेश्च । न च संक्रान्तिनिरास इति वाच्यम् । ‘न हि निन्दा निन्दितुं प्रवृत्ताऽपि तु विधेयं स्तोतुम्' इति न्यायात्किं तस्य पुष्करजलैरभिषेच[ने]नेत्यादिवदयनसंक्रान्ति- प्राशस्त्यद्योतनात् । स्नानदानजपश्राद्धव्रतहोमादिकर्मभिः । सुकृतं चलक्रान्तावक्षय्य पुरुपोऽ- श्नुते । दिनरात्रिप्रमाणानां निर्णयश्चलसंक्रमात् । ततः सकलकर्माणि पुण्योऽतश्चलसंक्रम इत्युक्तेः । अथ संक्रान्तित्तिग्मांशोः संक्रमो यः स संक्रमः । अजागलस्तन इव राशिसंक्रान्ति- रुच्यते । पुण्यदा राशिसंक्रान्तिः केचिदाहुर्मनीषिणः । एतन्मम मतं न स्यान्न स्पृशेत्क्रान्ति- कक्षया इति वृद्धवसिष्ठवचनादभवदभिमतसंक्रान्तिनिरासान्निरास एवास्तु । लाघवाद्वचना- च्चैकैकायनासंक्रान्तिः संक्रान्तिरस्त्वतिरिक्तासद्भावे वचनाभावादिति चेन्न । अयनांशैः संस्कृताकर्मुख्यसंक्रान्तिरुच्यते । अमुष्या राशिसंक्रान्तिस्तुल्यः कालविधिरस्तयोरित्युक्तेः । चलांशसंस्कृतार्कस्य मूर्ता संक्रान्तिरुच्यते । अमूर्ता राशिसंक्रान्तिस्तुल्यः कालविधिरस्तयो-