सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 363, कुल 723 में से
संदर्भ में पढ़ेंचाहिए। पात में शीघ्र फल का विलोम दान देने से स्पष्ट पात होता है। इस प्रकार के स्पष्ट पात के ज्ञान से स्पष्ट शर की साधनिका साधन करने से स्पष्ट शर ज्ञात हो जाता है। चन्द्रमा में केवल मन्द फल संस्कार से मध्य चन्द्रमा की स्फुटता हो जाने से पात सहित स्पष्ट चन्द्रमा से शर साधन करना ही समीचीन होता है ॥२०॥२१॥२२॥ इदानीं ज्ञशुक्रयोर्विशेषमाह— ये चात्र पातभगणाः पठिता ज्ञभृग्वोस्ते शीघ्रकेन्द्रभगणैरधिका यतःस्युः । स्वल्पाः सुखार्थमुदिताश्चलकेन्द्रयुक्तौ पातौ तयोः पठितचक्रभवौ विधेयौ ॥ चलाद्विशोध्यः किल केन्द्रसिद्धयै केन्द्रे सपाते द्युचरस्तु योज्यः । अतश्चलात्पातयुताज्ज्ञभृग्वोः सुधीभिराद्यैः शरसिद्धिरुक्ता ॥२४॥ स्फुटोनशीघ्रोच्चयुतौ स्फुटौ तयोः पातौ भगोले स्फुट एव पातः । वा० भा०—ननु ज्ञशुक्रयोः शीघ्रोच्चपातयुति केन्द्रं कृत्वा यो विक्षेप आनीतः सशीघ्रोच्चस्थान एव भवितुमर्हति न ग्रहस्थाने, यतो ग्रहोऽन्यत्र वर्तते । अत इगमनुपपन्नमिव प्रतिभाति । तथा च ब्रह्मसिद्धान्तभाष्ये ज्ञशुक्रयोः शीघ्रोच्च- स्थाने यावान् विक्षेपस्तावानेव यत्रतत्रस्थस्यापि ग्रहस्य भवति । अत्रोपलब्धिरेव वासना नान्यत् कारणं वक्तुं शक्यत इति चतुर्वेदेनाप्यनध्यवसायोऽत्र कृतः । सत्यम् । अत्रोच्यते । येऽत्र ज्ञशुक्रयोः पातभगणाः पठितास्ते शीघ्रकेन्द्रभगणैर्युताः सन्तस्तद्द्गणा भवन्ति । तथा च माधवीये सिद्धान्तचूडामणौ पठिताः । अतोऽल्प- भगणभवः पातः स्वशीघ्रकेन्द्रेण युतः कार्यः शीघ्रोच्चाद्ग्रहे शोधिते शीघ्रकेन्द्रम् । तस्मिन् संपाते क्षेपकेन्द्रकरणार्थं ग्रहः क्षेप्यः । अतस्तुल्यशोध्यक्षेप्योर्नाशे कृते शीघ्रोच्चपातयोग एवावशिष्यत इत्युपपन्नम् । किंच मन्दस्फुटोनं शीघ्रोच्चं प्रतिमण्डले चलकेन्द्रम्, तत् पाते क्षेप्तुं युज्यते । एवं कृते सति विक्षेपकेन्द्रं मन्दफलेनान्तरितं स्यात् । ग्रहच्छायाधिकारे सितज्ञपातौ स्फुटौ स्तश्चलकेन्द्रयुक्तावित्यत्र मन्दस्फुटोनं शीघ्रोच्चं शीघ्रकेन्द्रं पाते क्षिप्तम् । अतस्तत्र मन्दफलान्तरमङ्गीकृतमित्यर्थः । इतरकेन्द्रस्यानुपपत्तेः । अतो मन्दफलं पातेऽव्यस्तं देयम्, यतोऽनुपातसिद्धं चलकेन्द्रं मध्यग्रहोनशीघ्रोच्च- तुल्यं भवति । यत्तु भगोले क्रान्तिवृत्तं तत् कक्षावृत्तम् । तत्र यद्विमण्डलं तत्र स्फुटग्रहः । तत्स्फुटपातयोगो हि विक्षेपकेन्द्रम् । अतः स्फुटपातस्थाने संपातं कृत्वा ततस्त्रिभेऽन्तरे स्फुटीकृतैः परमविक्षेपांशैः प्राग्वदुत्तरे दक्षिणे च विन्यस्यम् । तथा न्यस्ते विमण्डले स्फुटग्रहस्थाने विक्षेपः स्फुटविक्षेपेण गणितागतेन तुल्यो दृश्यते नान्यथेत्यर्थः ॥२३॥२४॥