भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 379, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 379

त्रिप्रश्नवासना २७७ अतः २ (१५ घटी-चर) = ३० - २ च = रात्रि मान । तथा ३० + २ चर + ३० - २ च = अहोरात्रमान दक्षिण गोल में होता है । उक्त क्रिया का समीकरण वैपरीत्य स्वतः सिद्ध हो जाता है । उपपन्न ॥५॥ इदानीं विशेषमाह— सदा समत्वं द्यु निशोर्निरक्षे नोन्मण्डलं तत्र कुजाद्यतोऽन्यत् । षट्षष्टिभागाभ्यधिकाः पलांशा यत्राथ तत्रास्त्यपरो विशेषः ॥६॥ लम्बाधिका क्रान्तिरुदक् च यावत्तावद्दिनं सन्ततमेव तत्र । यावच्च याम्या सततं तमिस्रा ततश्च मेरौ सततं समार्धम् ॥७॥ वा० भा०—यत्र देशे षट्षष्टे६६रधिकाः पलांशास्तत्रायं विशेषः । अर्क- स्योत्तरा क्रान्तिर्यावत्कालं लम्बाधिका भवति तावत्कालं सततं दिनमेव । याम्या क्रान्तिर्यावत्तावत्सततं रात्रिरेव । तद्यथा—यत्र किल सप्ततिः ७० पलांशास्तत्र लम्बो विंशतिः २० । तत्र देशे विषुवद्वृत्तं दक्षिणक्षितिजादुपरिभागविंशत्योत्तर- क्षितिजादधश्च तावता । यदा रवेरुत्तरा क्रान्तिर्भागविंशतिर्भवति तदोत्तरक्षितिजे रविबिम्बर्द्धोदित भूत्वा मध्याह्ने दक्षिणक्षितिजादुपरि याम्योत्तरमण्डले भागच- त्वारिंशतोन्नतं भवति । तदा त्रिंशद्घटिका दिनदलम् । अतो दिनं षष्टिः । रात्रिः शून्यम् । ततो द्वितीयदिन उत्तरक्रान्तेरधिकत्वाद्विरुत्तरक्षितिजं न स्पृशति । एवं प्रतिपर्ययं परमक्रान्ति यावदुपर्युपरि परिभ्रमति । एवं मिथुनान्त उत्तरक्षितिजा- दुपरि भागचतुष्टयं याति । पुनस्तेनैव क्रमेणावरोहति । विंशतिभागाधिका क्रान्ति- यावत्तावत्कालं रविः सततं दृश्यः । तावद्दिनमेव । अनयैव युक्त्या दक्षिणगोले क्षितिजादधःस्थेऽर्के संततं रात्रिरिति । अत एव मेरौ षण्मासं दिनम् ॥ ६ ॥ ७ ॥ मरीचिः—ननु स्वक्षितिजवृत्तस्य सर्वद्युरात्रवृत्तानामर्धे स्थित्यभावान्दिनरात्र्योरल्प- महत्त्वमेतदुक्तं न युक्तम् । निरक्षदेशे तत्क्षितिजस्य सर्वेषां तेषामर्धे स्थितिसद्भावाद्दिनरात्र्योः ऽरल्पमहत्त्वानुपपत्तिरितयतस्तदुत्तरस्थल्यन्तरस्थितविशेषोद्देशं चोपजातिकयाऽऽह—सदा समत्वमिति । निरक्षदेशे सर्वत्र द्युनिशोरहोरात्र्योः सदा नित्यं समत्वं त्रिंशद्घटीमितत्वम् । तस्याक्षवशान्यूनाधिकत्वम् । विषुवद्दिने साक्षदेशेऽपि तयोस्तुल्यत्वं क्षितिजेन तद्द्युरात्र- वृत्तार्धच्छेदनोदस्तद्वारणार्य सदेति । तत्र हेतुमाह—नेति । यतः कारणात्तत्र सर्वनिर्क्षदेशे । स्वक्षितिजवृत्तात् । अन्यत् । भिन्नम् उन्मण्डलम् । न नास्ति । निरक्षदेशाद्दक्षिणोत्तरसूत्रे ध्रुवद्वयान्तरे तदतिरिक्तनिर्क्षदेशासिद्धेः । तथा चेष्टापत्तिः । क्षितिजोन्मण्डलयारभेदादिति भावः । ननु क्षितिजवृत्तप्रदेशस्य याम्योत्तरवृत्त ऊर्ध्वाधःस्थितविषुवद्वृत्तप्रदेशाभ्यां क्रमेण दक्षिणोत्तरयोर्लम्बांशान्तरितत्वात्षष्टिभागाक्षदेशे जिनांशतुल्यान्तरितत्वम् । तत्र क्षिति- जस्य क्रान्तिवृत्तवद्दर्शनात्सर्वद्युरात्रवृत्तानां तत्संबन्धात्तद्देशावधि 'द्युरात्रवृत्ते क्षितिजादधःस्थे