सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 388, कुल 723 में से
संदर्भ में पढ़ें२८६ गोलाध्याये 'पितरश्चन्द्रबिम्बस्था अग्निष्वात्तादयो रविम् । उदितं कृष्णपक्षार्धं पश्यन्त्यन्यत्र चास्तग- 'मिति शाकल्योक्तेश्च युक्तौ । एतेन कदम्बकुसुमकेसरा इव चन्द्रबिम्बगोले पितृगणाः सम- न्तात्तिष्ठन्तीति चतुर्वेदाचार्योक्तं निरस्तम् । त्रिंशत्तिथिमितमासस्य पित्र्यहोरात्रत्वेन सिद्धे- रुक्तवचनानुपपत्तेः । नहि सर्वेषां पितॄणामुदयास्तावष्टम्यर्धे । चन्द्रबिम्बशौक्ल्यस्य व्यव- धानतयाऽदर्शनापत्तेश्च । तथा च प्रवहभ्रमेण सूर्यस्य चन्द्रबिम्बाभितो भ्रमणमनुपपन्नमपि चन्द्राच्छीघ्रगतेः सूर्यः स्वपूर्वगत्या गच्छन्नगत्यन्तरेण प्रत्यहं पश्चाद्द्द्रवतीति चन्द्राभितः सूर्य(पूर्व)पश्चिमभ्रमणं नानुषपन्नमिति भावः । यद्यपि चन्द्रबिम्बगोलोर्ध्वभागस्थानां पितॄणां चन्द्रगोलदृश्यादृश्यर्धसंस्थित (धिस्थ) वृत्तस्य क्षितिजत्वात्तत्समसूत्रस्थसूर्यदर्शनस्योदयास्त- संभवादष्टम्यर्धे तदुदयास्तावबनुपपन्नौ । नहि पक्षदले तत्समसूत्रस्थत्वेन सूर्यावस्थानम् । सूर्य- चन्द्रयोर्नवत्यंशान्तरत्वेन तत्र तस्य तदधःस्थरवाच्चन्द्रस्य सूर्यकक्षाकेन्द्रत्वाभावात्तत्क्षिति- जसमसूत्रस्थसूर्ये नवत्यल्पांशान्तरत्वात् । अत एव शृङ्गोन्नत्यधिकारे चन्द्रस्याष्टयोजन- मयश्रवणेनेत्यादिविशेषोक्तिस्तथाऽपि चन्द्रगोलस्याल्पप्रमाणत्वात्पितॄणामत्युच्चकायत्वाच्च त्रिभान्तरितसूर्यसमसूत्रसंबन्धिचन्द्रास्मद्दृश्यगोलार्धान्तर्गतलघुवृत्तस्यैव क्षितिजत्वकल्पनात् । अन्यथा वक्ष्यमाणब्रह्मादिनोपपत्त्यनुपपत्तेः । ब्रह्मणो भूमिगोलार्धाधिकरविसंचारसंबन्धिभूगोल- भागस्य दर्शने मानाभावात् । एतेन चन्द्रगोलस्थकेन्द्रसंबन्विदिनारम्भसमाप्ती चन्द्रात्सूर्यस्य पादोनषट्काष्टभागान्तरितत्वे युक्ते । तत्रार्धशुक्लत्वसंभवात् । पृष्ठे तु चन्द्रव्यासार्धान्तरेण क्षितिजान्तरसंभवात्सूर्यपृष्ठयोजनकर्णेन त्रिज्या तदा चन्द्रबिम्बव्यासार्धयुतचन्द्रस्पृष्टयोजन- कर्णेन केत्यनुपातागतफलस्य धनुरंशा नवतिशुद्धास्तदन्तरितत्वे सूक्ष्मेति निरस्तम् । उक्त- क्षितिजकल्पनया तदनवकाशात् । अथ कृष्णपक्षः पितृदिनं शुक्लपक्षः पितृरात्रिः । पितृ- वासरमादितोऽसितं सितपक्षं च वदन्ति शर्वरीमित्युक्तेरीति कथं संगतमिति चेन्न । दिनोन्मुखेऽर्के दिनमेव तन्मतं निशा तथेत्युक्तरीत्या तस्य संगतत्वात् । अन्यथा सवितार- मवेक्ष्य शीतगोष्ठपरिष्टात्पितरः स्वमूर्ध्वगम् । असितान्ततिथौ ततः परं न च पश्यन्ति कथं सिते दल इति लल्लोवतदूषणापत्तेः । न चैवमेषां पक्षार्धे दिनरात्र्यारम्भाच्चान्द्रमासः पितृदिनमित्युक्तिरसँगतेति वाच्यम् । त्रिंशत्तिथिमितगौणचान्द्रमासस्य तदहोरात्रित्वोक्तिपर- त्वात् ।।१३।।१४।। केदारदत्त:—पितरों का अहोरात्र बताया जा रहा है— चन्द्रमा के ऊर्ध्व उपरी पृष्ठ पर पितर लोग (भौतिक शरीर छोड़ कर जो मृतात्मा रहते हैं ।) पितर लोक वासी अपने नीचे पृथ्वी को देखते हैं । जैसे भूपृष्ठ वासी चन्द्रमा को ऊपर देखते हैं वैसे ही चन्द्रपृष्ठ वासी पृथ्वी को आकाश में अपने ऊपर देखते हैं । अर्थात् चन्द्रपृष्ठ वासियों के लिए आकाशस्थ पृथ्वी चन्द्रमा की तरह देखो जाती है । भू गर्भाभिप्रायिक अमान्त समय में चन्द्रपृष्ठस्थ मृतात्मा अपने अपने स्थान से ऊपर सूर्य को देखते हैं इसलिए अमान्त समय में चन्द्रपृष्ठ में मध्याह्न अर्थात् दिनार्ध होता है ।