सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 396, कुल 723 में से
संदर्भ में पढ़ें२९४ गोलाध्याये देतीत्यर्थसिद्धेन स्वचरखण्डयुता निरक्षोदयाः कर्कादित्रयाणां स्वोदया भवन्ति । एवं तुलादिषड्राशीनां समुदायकालस्य त्रिंशद्घटीमितत्वाद् युक्ता(तुला)दिराशित्रयसमुदय- कालस्य गोलयुक्त्या चराधिकपञ्चदशघटीमितत्वप्रतिपादनाच्च मकरादित्रयसमुदयकालः परमचरोनपञ्चदशघटीमितोऽर्थसिद्धस्तेन स्वचरखण्डोना निरक्षोदया मकरादित्रयाणां स्वोदया भवन्तीति भावः । अथोपसंहारव्याजेन फलितं पूर्वोक्ताभिप्रायं स्फुटयति-चरखण्डै- रिति । तेन क्रान्तिवृत्तोक्तयदोदयव्यवस्थाफलिताथेंन । निरक्षोदयाः । मकरादिषण्णाम् । निरक्षदेशोदयासवः । चरखण्डैः स्वस्वराशिसंबन्धिभिः । क्रमेणोना युक्ताः स्वदेशे मकरा- दिराशीनामुदयकालासवो भवन्तीत्यर्थः ॥२२॥ ननु तथाऽपि गोलयुक्त्या स्वस्वचरखण्डसंस्कारो राश्युदयकालेषु संदिग्ध एवेत्यत आर्ययाऽऽह-क्षितिजेऽजादिमिति । अध्यापकः क्षितिजे खगोलबद्धक्षितिजपूर्वभागे । अजादिं भगोलस्थक्रान्तिवृत्ताधिष्ठितक्रान्तिपातचिह्नं कृत्वा तत्समसूत्रेण कृत्वा । गोलं पूर्वोक्त- भगोलम् । सर्वं संपूर्णम् । नतु तदवयवरूपमल्पं भ्रमयन् । क्षितिजपूर्वभागे समसूत्रेण योजयन्नित्यर्थः । शिष्याणामेतज्जिज्ञासूनां बोधजननाथंम् । एनज्ज्ञानोत्पत्तिनिमित्तम् । उक्तम् । यो हि प्रदेशोऽपममण्डलस्येत्यादिजिज्ञाषान्तो वेत्यन्तमुक्तमिदं प्रदर्शयेत् । सूक्ष्मत्वेन यथा बोधः स्यात्तथा दशयेदित्यर्थः । नन्विदमक्तं निर्णीतं तत्र भवति । परमुक्ताशङ्कायाः करणं कथं शक्यमत आह-अनुक्तमिति । स्वस्वचरखण्डयोजनन्यूनीकरणयुक्तिप्रति- पादनमत्र स्पष्टतयाऽनुक्तम् । चः समुच्चये । तत्प्रदर्शयेत् । गोलश्रम एव तद्युक्तिः प्रत्यक्षेति भावः । तत्प्रतिपादनं स्पष्टाधिकारे । उदयवासनावसरे सविस्तरमतोऽत्र तदनु- द्योगः । प्रसङ्गादाह-अन्यदिति । अन्यद्दृश्यमानमत्र प्रदर्शयेत् । तथा चात्र यदुक्तं तत्सर्वं भ्रमद्गोले निर्णीतं भवतीति स्वाज्ञानं निरसनीयमिति भावः ॥२३॥ केदारदत्तः-चरखण्डों से सम्बन्धित तीन तीन राशियों का उदयकाल-राशि चक्र का चतुर्थांश १२/४ = ३ राशियां निरक्ष में १५ घटी = १५ × ६० = ९०० पलों में उदय लेती हैं । चरार्ध सम्बन्ध से ६ राशियों का उदय मान ९०० × २ = १८०० पल = ३० घटी में होता है मेषादि से मिथुनान्त चर नाड़ी कम तुल्य १५ घटी में, कन्यान्त से धनुष तक चर पल युक्त १५ घटी में, क्षितिज में लगती हैं । इस प्रकार चरखण्डों से रहित और युक्त मेषादि संस्कृत निरक्षोद्यासु राशियों का अपने देश में स्वदेशोदय मान होता है । उपपत्ति— एक राशिज्या × कोणज्या ———————————— = द्युज्या वृत्तीय उदय ज्या = द्यु० वृ० उ० त्रिज्या द्यु० वृ० उ० × त्रि एक राशिज्या × कोणज्या त्रि पुनः —————————————— = —————————————————————— × ——— द्यु त्रि द्यु एक राशिज्या × कोणज्या × द्यु = ——————————————————————————— = एक राशि की उदय ज्या । त्रि