भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 397, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 397

त्रिप्रश्नवासना २९५ यहाँ पर ध्यान देने की बात है समीकरण में जहाँ पर क्रान्ति वृत्त और ध्रुव प्रोत- वृत्तोत्पन्न कोण का मान अधिक होता है उसी राशि का उदय मान अधिक होता है ।

मूल में तिर्यक् स्थितत्व का अर्थ अल्पकोणोत्पादकत्व और ऊर्ध्वस्थितत्व का अर्थ अधिककोणोत्पादकत्व समझना चाहिए ॥ १५ + चर = मेषादि, १५ + चर = तुलादि । १५ - चर = मकरादि, १५ - चर = कर्कादि उत्पन्न हुआ ।।१९।।२०।।२१।।२२।।२३ अथास्तमयानाह— योऽभ्युदेति समयेन येन तत्सप्तमोऽस्तमुपयाति तेन च । राशिरूर्ध्वमपमण्डलं कुजादर्थमेव सततं यतः स्थितम् ॥२४॥ वा० भा०—यो राशिर्येन कालेनोदेति तेन तत्सप्तमोऽस्तं याति । ये मेषादीना- मुदयास्ते तुलादीनामस्तमयाः । ये तुलादीनामुदयास्ते मेषादीनामस्तमया इत्यर्थः । यतोऽपमवृत्तं क्षितिजादुपर्यर्धमेव भवति । अर्धमधश्च । अतो राश्योरुदयमस्तमयं च गच्छतोस्तुल्यकालतोपपद्यते ।।२४।। मरीचिः—ननु निरक्षे राश्युदयास्तकालमानयोरभेदः साक्षे तयोर्भेदः कुतः संजात इत्यतो राश्यस्तकालवासनां रथोद्धतयाऽऽह—योऽभ्युदेतीति । यो राशिर्येन कालेनाभ्युदेति क्षितिजपूर्वभागसक्तो भवति तेन कालेन । चकारातन्न्यूनाधिककालव्यवच्छेदः । तत्सप्तमः । उदितराशेः सकाशात्सप्तमो राशिरस्तं क्षितिजपश्चिमभागसक्तत्वमुपयाति प्राप्नोति । अत्र कारणमाह–ऊर्ध्वमिति । क्षितिजादूर्ध्वं क्रान्तिवृत्तम् । अर्धम् । एवकारान्न्यूनाधिकव्य- वच्छेदः । सततं नित्यम् । यतः कारणात् । स्थितमस्ति क्रान्तिवृत्तस्य भूगर्भकेन्द्रत्वात् । अन्यथा तत्केन्द्रत्वानुपपत्तेः तथा च क्रान्तिवृत्तप्रदेशो यथोदेति तथा तत्षड्भान्तरितप्रदेशोऽस्तं